पृष्ठम्:रामायणमञ्जरी.pdf/१५२

पुटमेतत् सुपुष्टितम्
१४३
रामायणमञ्जरी ।


इति क्षपाचरपतेः श्रुत्वा जनकनन्दिनी ।
चकारातिथ्यसत्कारं निर्व्याजमुनिगौरवात् ॥ ७९७ ॥
तस्मै निजकुलं रामवृत्तान्तं च निवेद्य सा ।
मद्भर्तुर्लप्स्यसे पूजां प्रतीक्षस्वेत्युवाच तम् ॥ ७९८ ॥
स सीतावचनं श्रुत्वा प्रसह्य हरणोत्सुकः ।
तामूचे दन्तकिरणैर्दंष्ट्रां प्रकटयन्निव ॥ ७९९ ॥
अहं स विश्वविजयी वसतिः सर्वसंपदाम् ।
द्रावणस्त्रिदशेन्द्रस्य रावणो लोकरावणः ॥ ८०० ॥
हेमप्रकारजघना सरिन्नाथोर्मिमेखला ।
रत्नांशुकवती लङ्का निःशङ्कायतनं मम ॥ ८०१ ॥
अविश्रान्तोत्सवा सा श्रीस्ते भोगाश्चावियोगिनः ।
त्वत्संगमेन मे यान्तु त्रैलोक्यस्पृहणीयताम् ॥ ८०२ ॥
भ्रातुर्वैश्रवणस्यापि विमानं मानिनो मया ।
अग्र्यमैश्वर्यवृक्षस्य पुष्पकं पुष्पकं हृतम् ॥ ८०३ ॥
सुरैस्त्रैणं तृणं मन्ये न धीर्विद्याधरीषु मे ।
शोचामि सुभ्रु वीक्ष्य त्वामन्यस्त्रीक्षपितं वयः ॥ ८०४ ॥
धिक्सुखं त्वद्विहीनानां का विभूतिस्त्वया विना ।
अकाम एव कामोऽसौ यस्य त्वं नावलम्बनम् ॥ ८०५ ॥
प्रसादः क्रियते सुभ्रु विहारस्तव रोचताम् ।
मया सह विशालाक्षि लङ्कोपवनभूमिषु ॥ ८०६ ॥
यत्प्रसादं प्रतीक्षन्ते सुरगन्धर्वकिंनराः ।
प्रणयी ते जनः सोऽयं स्वदारेषु निरादरः ॥ ८०७ ॥
श्रुत्वैतत्कोपसंतप्ता वज्रपातोपमं वचः ।
जगाद जानकी रूक्षं सती मानेन निर्भया ॥ ८०८ ॥
अहो बतातिविषमं विषं पातुं समीहसे ।
यस्वामोदेन समदः सानुगो न भविष्यसि ॥ ८०९ ॥