पृष्ठम्:रामायणमञ्जरी.pdf/१५३

पुटमेतत् सुपुष्टितम्
१४४
काव्यमाला ।


गुणरत्नसुधाम्भोधिर्नयनानन्दबान्धवः ।
औचित्यस्योचितं धाम श्यामः कमललोचनः ॥ ८१० ॥
विश्वरक्षामणिर्वीरः पतिर्मे धन्विनां वरः ।
प्रांशुः प्राज्यभुजस्तम्भस्तम्भितारिमनोरथः ॥ ८११ ॥
भगीरथ इवानल्पसर्पत्कीर्तिसुरापगः ।
यस्याग्रे न प्रकाशन्ते तेजांसि च तपांसि च ॥ ८१२ ॥
प्रतापधाम्नस्तस्याहं रामस्य सहचारिणी ।
प्रभेव भास्वतो नित्यं निशाचरकुलाशनेः ॥ ८१३ ॥
तां स्प्रष्टुमिच्छसि कथं मोहान्मां त्यक्तजीवितः ।
जिह्वामिव गजारातेर्जृम्भमाणस्य जम्बुकः ॥ ८१४ ॥
मोहोऽयं ते निपातो वा विपाकः कुकृतस्य वा ।
ऐश्वर्यं कुलमात्मानं यत्स्वयं हन्तुमिच्छसि ॥ ८१५ ॥
आसन्नदुःसहापातात्त्वत्तो व्यक्तं क्षपाचर ।
संपन्मूलहताद्वृक्षाद्विहंगालीव विद्रुता ॥ ८१६ ॥
रामस्य विप्रिये कस्त्वं मत्तेभस्येव गर्दभः ।
शार्दूलस्येव शशकः सुपर्णस्येव वायसः ॥ ८१७ ॥
इति सीतावचः श्रुत्वा सकोपो राक्षसेश्वरः ।
ऊचे कन्दर्पकारुण्यात्क्रूरोऽपि मधुराक्षरम् ॥ ८१८ ॥
न मामर्हसि लोलाक्षि प्रत्याख्यातुं शुचिस्मिते ।
यस्याज्ञा त्रिदशाधीशशिखाशेखरशालिनी ॥ ८१९ ॥
असिन्ममाननवने रुषा भ्रूभङ्गसंगते ।
निपतन्ति विमानेभ्यः स्रस्तायुधधराः सुराः ॥ ८२० ॥
नोप्णांशुस्तापमादत्ते मद्भयाद्भीरुमारुताः ।
नोद्धतं परिसर्पन्ति विनीताः सेवका इव ॥ ८२१ ॥
अस्तु त्रैलोक्यलक्ष्मीस्ते सपत्नी मत्परिग्रहात् ।
त्वत्संगमसुधासिक्ता भवन्तु मम संपदः ॥ ८२२ ॥