पृष्ठम्:रामायणमञ्जरी.pdf/१५४

पुटमेतत् सुपुष्टितम्
१४५
रामायणमञ्जरी ।


अल्पायुषा मनुष्येण किं रामेण हतौजसा ।
तं कञ्चुकं भुजंगीव त्यज दिव्योपभोगिनी ॥ ८२३ ॥
श्रुत्वा तत्कोपताम्राक्षी कम्पिता जनकात्मजा ।
आज्यप्रज्वलितेवाग्नेः शिखा प्रोवाच रावणम् ॥ ८२४ ॥
विनष्टाः सर्वथा सर्वे वराकाः क्षणदाचराः ।
येषां परोक्षे त्वद्दोषाद्विनाशोऽयमुपस्थितः ॥ ८२५ ॥
धिगेतां गर्हितां लोके दुराचारानुजीविताम् ।
यया सुप्ताः क्षयं यान्ति निर्दोषा अपि सेवकाः ॥ ८२६ ॥
विमुञ्च परदारेच्छां मा गमः प्रलयं मुधा ।
रामदर्शनपर्यन्तं जीवितं किं न शोचसि ॥ ८२७ ॥
याते चापप्रणयितामार्यसूनोर्भुजद्रुमे ।
पाप प्रयास्यसि क्षिप्रं दुर्नयख्यातिशेषताम् ॥ ८२८ ॥
क्षणाद्दिक्षु निरुद्धासु रामचापच्युतैः शरैः ।
मातुरप्युदरे नूनं न ते स्थानं भविष्यति ॥ ८२९ ॥
विद्युद्विलासिनां व्योमि दिगन्तव्यापिनां भुवि ।
सर्वथा रामबाणानां पातालेऽप्यहता गतिः ॥ ८३० ॥
करिष्यत्युपदेशं ते मृत्योर्भ्रूभङ्गभङ्गुरा ।
चापवल्ली रघुपतेस्त्रैलोक्योत्सेकतर्जनी ॥ ८३१ ॥
अभेद्यतां वक्षसस्ते कुलिशोल्लेखलक्ष्मणः ।
करिष्यन्ति हतां घोरा राघवस्य शराः खराः ॥ ८३२ ॥
करपत्रशिलापाकवज्रकण्टकसंकटैः ।
अवश्यमुत्खाततनू रामवाणैः प्रतुष्यसि ॥ ८३३ ॥
इत्युक्तः परुषं रामपत्न्या नक्तंचरेश्वरः ।
निष्पिष्य पाणिना पाणिं घोरं स्वं वपुराददे ॥ ८३४ ॥
सोऽभूत्त्रिदशसंनाशकारिवक्रवनोत्कटः ।
स्पष्टदंष्ट्रावटाट्टालघटाघटितदिक्तटः ॥ ८३५ ॥


१. 'न तां' शा०. १९