पृष्ठम्:रामायणमञ्जरी.pdf/१५५

पुटमेतत् सुपुष्टितम्
१४६
काव्यमाला ।


शुभ्रानविभ्रमास्तस्य ययुर्दंष्ट्रांशुसंचयाः ।
व्योमाब्धिमध्यविस्फारफेनकूटाट्टहासताम् ॥ ८३६ ॥
मिथःसंघट्टसंजातस्फुलिङ्गा कुण्डलावली ।
वभौ तस्यार्कमालेव कल्पान्तोल्काग्निवर्धिनी ॥ ८३७ ॥
रक्तमाल्याम्बरधरः प्रदीप्तविविधायुधः ।
सोऽभूद्दावानलालोलः ससंध्याभ्र इवाचलः ॥ ८३८ ॥
तुषारतारस्तस्योच्चैः स्फटिकस्यन्दनिर्झरः ।
बभार हारः करकावृष्टिशोभां घनाकृतेः ॥ ८३९ ॥
उद्ययुर्भूरिकेयूरकान्तिकन्दलिनो भुजाः ।
अहंपूर्विकयेवास्य जानकीहरणोत्सुकाः ॥ ८४० ॥
सोऽब्रवीत्क्षुभिताम्भोधिघोरनिर्घोपभीषणम् ।
दोलालीलामिव मुहुर्भ्रूभङ्गैरादिशन्दिशाम् ॥ ८४१ ॥
मूढे हितं न जानीषे तत्त्वेनाभिहितं मया ।
असत्यप्रणयाः सत्यशङ्किन्यः सर्वथा स्त्रियः ॥ ८४२ ॥
पश्य भ्रूक्षेपमात्रेण विश्वविप्लवकारिणा ।
स्वर्गं करोमि पाताले पातालं वा सुरालये ॥ ८४३ ॥
भजस्व जितमृत्युं मां त्यज मर्त्यं क्षणायुषम् ।
क्लीवस्तत्याज राज्यं यः स्त्रीवाक्येन विनष्टधीः ॥ ८४४ ॥
नद्यो निम्नानुसारिण्यः कदर्याभिरताः श्रियः ।
नार्यो नीचानुरागिण्यो धूर्ताधीनाश्च बुद्धयः ॥ ८४५ ॥
प्रायः प्रीतिर्विरूपेषु निर्गुणेष्वधमेषु च ।
बालानामबलानां च नित्याभ्यासेन जायते ॥ ८४६ ॥
सान्त्विताप्यप्रियं ब्रूषे प्रणयं नाभिमन्यसे ।
दर्पात्परिभवन्त्येव योषितो हृदि लालिताः ॥ ८४७ ॥
एष स्वयं प्रसह्य त्वां हराम्यधमरागिणीम् ।
सुखभोग्याः स्त्रियः सत्यमाक्रम्यैव वशीकृताः ॥ ८४८ ॥


१. 'हार' शा०.