पृष्ठम्:रामायणमञ्जरी.pdf/१५६

पुटमेतत् सुपुष्टितम्
१४७
रामायणमञ्जरी ।


अतोऽन्यदुत्सहे वक्तुं घोरमप्रियवादिनि ।
किं करोम्यतिदुर्वृत्तं मनो मग्नमिदं त्वयि ॥ ८४९ ॥
इत्युक्त्वा तां स जग्राह क्रोधान्धो राक्षसाधिपः ।
उर्वोः केशेषु चाकृष्य करेण कदलीमिव ॥ ८५० ॥
तं दृष्ट्वाञ्जनशैलाभं हरन्तं जानकीं वलात् ।
दंष्ट्राकरालं सत्रासं दुद्रुवुर्वनदेवताः ॥ ८५१ ॥
तस्यादृश्यत निर्घोषघोरः काञ्चनपिङ्गलः।
खरयुक्तो रथः स्फूर्जद्विद्युद्दीप्त इवाम्बुदः ॥ ८५२ ॥
स वैदेहीं समादाय स्यन्दनेन पताकिना ।
खं विवेश भयोद्भ्रान्तां स्वर्नदीं दर्शयन्निव ॥ ८५३ ॥
गृहीता तेन सा तन्वी बभौ तालवनत्विषा ।
अकालकालमेघेन प्राचीव शशिनः कला ॥ ८५४ ॥
सा श्वभ्रपतितेवोग्रभयमीलितलोचना ।
किमेतदिति नाज्ञासीत्क्षणं मोहहतेव धीः ॥ ८५५ ॥
कृच्छ्रेण संज्ञामासाद्य करुणं विललाप सा ।
उद्ग्रीवैराश्रममृगैः साश्रुमालोकिता मुहुः ॥ ८५६ ॥
हा लक्ष्मण विमूढाहं भ्रातुस्ते दयिता सती ।
हृता त्वद्वाक्यविमुखी रक्षसा धीमतां वर ॥ ८५७ ॥
हा नाथ ह्रियमाणां मां राक्षसेन वलीयसा ।
त्रैलोक्यरक्षासंनद्ध प्रियां कथमुपेक्षसे ॥ ८५८ ॥
स्वस्त्यस्तु वः कर्णिकारचूतपल्लवकेसराः।
रक्षसा रामरहिता हृताहमबला बलात् ॥ ८५९ ॥
गोदावरि नमामि त्वां गिरीणामयमञ्जलिः।
सर्वे शंसत रामाय रक्षसा वल्लभा हृता ॥ ८६० ॥
सत्त्वेभ्यश्च मुनिभ्यश्च नमः कीर्तिः प्रयातु वः ।
परित्रस्तजनत्राणपवित्रकथनप्रथाम् ॥ ८६१ ॥


१. 'राक्षसेन हृतां प्रियाम्' ख.