पृष्ठम्:रामायणमञ्जरी.pdf/१५७

पुटमेतत् सुपुष्टितम्
१४८
काव्यमाला ।


श्रुत्वैतन्नोचिरे किंचित्सत्रासास्त्रिदशा अपि ।
को रावणोग्रदहने स्वयं पतितुमीश्वरः ॥ ८६२ ॥
इति सीतापहरणम् ॥ २५ ॥
तस्याः क्रन्दितमाकर्ण्य जटायुर्गृध्रभूपतिः ।
उवाच रावणं दूरात्पादपे महति स्थितः ॥ ८६३ ॥
जनापवादकलिले पौलस्त्यकुलमुन्नतम् ।
अहो नु पातकश्वभ्रे पातितो भवता स्वयम् ॥ ८६४ ॥
लोभः परवधूवाञ्छा नृशंसत्वमसत्यता ।
शुद्धजन्मपटे पुंसामेताः कर्दमविप्रुषः ॥ ८६५ ॥
लज्जैषा यदि भूपालः परदारान्परामृशेत् ।
त्रातारो यदि हन्तारो रक्षितारो तु तत्र के ॥ ८६६ ॥
प्रभविष्णुर्न तत्कुर्यात्साधूनां संगमेषु यत् ।
प्राप्नोति पृथुधिक्कारगर्हाभारकदर्थनाम् ॥ ८६७ ॥
रामस्य शुद्धयशसः पत्नी धर्मनिधेः कुलात् ।
हरतस्तव वक्त्राणि न लज्जन्ते परस्परम् ॥ ८६८ ॥
अरुणस्यात्मजं धर्म्ये पुराणं सत्पथि स्थितम् ।
वृद्धं जटायुषं नाम गृध्रराजमवैहि माम् ॥ ८६९ ॥
त्वया हर्तुं न शक्यैषा मयि जीवति जानकी ।
अरणिर्वृषलेनेव शत्रुश्रीरिव भीरुणा ॥ ८७० ॥
अहो नु मदनान्धेन रामस्य हरता प्रियाम् ।
कण्ठे हारधिया मूढ कालव्यालः कृतस्त्वया ॥ ८७१ ॥
भुञ्जन्ते परिणामार्हं शक्यमेव च कुर्वते ।
फलोचितं च जल्पन्ति साधवो दूरदर्शिनः ॥ ८७२ ॥
अशक्यं पापमलिनं संपदुन्मूलनक्षमम् ।
जीवितान्तकरं घोरं मा कृथाः कर्म गर्हितम् ॥ ८७३ ॥


१. 'भूधरः' शा०. २. 'भ्रातरो' क-ख.