पृष्ठम्:रामायणमञ्जरी.pdf/१५८

पुटमेतत् सुपुष्टितम्
१४९
रामायणमञ्जरी ।


षष्टिवर्षसहस्राणि प्रयातानि ममायुषः ।
श्रुतमद्यैव दृष्टं च परस्त्रीहरणं मया ॥ ८७४ ॥
कथं मम वचः पथ्यमवधीर्यैव धावसि ।
अधुनैव मया भग्नं पश्यन्तु त्वां नभश्चराः ॥ ८७५ ॥
इति गृध्रपतेः श्रुत्वा वचनं रावणोऽवदत् ।
दंष्ट्राकरालमिव खं कुर्वन्कोपस्मितांशुभिः ॥ ८७६ ॥
चिरादन्विष्य लब्धोऽसि नूनं कालेन खेचर ।
निर्भयो यन्ममाप्यग्रे बभाषे प्रतिभान्वितम् ॥ ८७७ ॥
वृद्धोऽपि मां न जानासि लोकेषु प्रथितं कथम् ।
जीर्णं शरीरमथ वा खिन्नस्त्वं त्यक्तुमिच्छसि ॥ ८७८ ॥
येनोप्यते विसंवादिनिर्वाहविपुलं वचः ।
तदसत्यपुरीषस्य निर्गमच्छिद्रमाननम् ॥ ८७९ ॥
इत्युक्त्वा कोपताम्राक्षो राक्षसः पक्षिणां वरम् ।
कर्णिकालीननाराचैस्तीक्ष्णैः क्षिप्रमपूरयत् ॥ ८८० ॥
वज्राग्रनखराभ्यां च चरणाभ्यां विदार्य तम् ।
खगः फुल्लमिवाशोकं चकार रुधिरारुणम् ॥ ८८१ ॥
दशग्रीवभुजोत्सृष्टा गृध्रराजं दशेषवः ।
विविशुः पृथुशूत्काराः सनिःश्वासा इवोरगाः ॥ ८८२ ॥
ततः कोपाकुलः पक्षी पक्षाभ्यां राक्षसप्रभोः ।
बभञ्ज दीप्ररत्नांशुपिञ्जरं सशरं धनुः ॥ ८८३ ॥
तस्य हेममयं दीप्तं प्रतापमिव कङ्कटम् ।
छित्त्वा जघानाशु रथं मनोरथमिवायतम् ॥ ८८४ ॥
पपात राक्षसेन्द्रस्य छत्त्रं तच्चरणाहतम् ।
पुलस्त्यवंशो मलिनो जानकीहरणादिव ॥ ८८५ ॥
छिन्नायुधं हतरथं तमुवाच विहंगमः ।
त्यज रामस्य महिषीं प्राणात्रक्ष सह श्रिया ॥ ८८६ ॥


१. 'ष्वप्रतिमं' क.