पृष्ठम्:रामायणमञ्जरी.pdf/१५९

पुटमेतत् सुपुष्टितम्
१५०
काव्यमाला ।


नेयं श्रीः सहते शुद्धशीलमानससारसी।
धिक्कारमलिनं पाप प्रवादजलदागमम् ॥ ८८७ ॥
तेषामेव विभात्येष निष्कलङ्को यशःशशी ।
शीलं विभूषणं येषां धर्मो बन्धुर्दया प्रिया ॥ ८८८ ॥
अनायत्तं कृतान्तस्य साधूनां जीवितं यशः ।
सश्वासमेव मरणं शीलत्यागः शरीरिणाम् ॥ ८८९ ॥
अवश्यं त्यक्तसद्वृत्तः पौलस्त्य न भविष्यसि ।
न ह्यनासन्ननाशानामुदेति मलिना मतिः ॥ ८९० ॥
इत्युक्त्वा निपपातास्य पृष्टे वज्रनखः खगः ।
स चकम्पे चिरं येन क्षित्तिकम्प इवाचलः ॥ ८९१ ॥
मौलिरत्नांशुशबलैस्तमाकृष्य शिरोरुहैः ।
चक्रे स शक्रचापाङ्क लोलाभ्रमिव भूधरम् ॥ ८९२ ॥
वामेनाङ्केन वैदेहीमवष्टभ्य दशाननः ।
तलाघातेन मुष्टिभ्यां पद्भ्यां च निजघान तम् ॥ ८९३ ॥
स रावणकराघातैस्तैरकम्पितविग्रहः ।
तं संभ्रमाद्भुतरुषां विधेयं विदधे खगः ॥ ८९४ ॥
ततः सीतां समुत्सृज्य संरुषद्दशकंधरः ।
तुण्डाग्रपक्षचरणांश्चिच्छेदास्य महासिना ॥ ८९५ ॥
कृपाणकृत्तसर्वाङ्गं विहंगं पतितं भुवि ।
आर्ताभिसृत्य वैदेही परिष्वज्य शुशोच तम् ॥ ८९६ ॥
एवं शरीरं तत्याज सीतार्थं गृध्रभूपतिः ।
आपन्नत्राणसज्जानां प्राणः सत्त्ववतां तृणम् ॥ ८९७ ॥
इति जटायुवधः ॥ २६ ॥
क्षणशेषायुषि क्षोणीमालिङ्ग्यैव जटायुषि ।
स्थिते रुधिरदिग्धाङ्गे चुक्रोश जनकात्मजा ॥ ८९८ ॥
सा रावणेनाभिसृता संभ्रमव्याकुलांशुका ।
वृक्षानप्यभिदुद्राव संत्रस्ता शरणैषिणी ॥ ८९९ ॥