पृष्ठम्:रामायणमञ्जरी.pdf/१६

पुटमेतत् सुपुष्टितम्
रामायणमञ्जरी।

उदतिष्ठन्महद्भूतं पावकाकृष्णपिङ्गलम् ।
हेमपात्रं समाधाय दोर्भ्या पायसपूरितम् ॥ ७१ ॥
प्राजापत्यः स पुरुषो मुनेर्वाक्यान्नृपाय तम् ।
पुत्रीयपायसं पात्रं प्रतिपाद्य तिरोदधे ॥ ७२ ।।
तदादाय च भूपालः पायसं मुनिशासनात् ।
देवीभ्यः प्रददौ दिव्यं मूर्त हर्षमिवात्मनः ॥ ७३ ॥
ततोऽर्ध प्राप कौसल्या चतुर्भागं च कैकयी।
चतुर्भागं सुमित्रा च स्वयं तेन द्विधा कृतम् ॥ ७४ ।।
विसृष्टाखिलभूपेन पूजितः पृथिवीभुजा ।
कान्तां शान्तां समादाय राजपुत्रीं ययौ मुनिः ॥ ७५ ॥
अथ कालेन कौसल्या प्रागसूत सुतं सती ।
रामं विरामं द्विषतां देवं सूर्यमिवादितिः ॥ ७६ ॥
सुषुवे भरतं देवी कैकेयी तनयोत्तमम् ।
प्राप लक्ष्मणशत्रुघ्नौ सुमित्रा पुत्रकावपि ।। ७७ ॥
क्रीडासु विद्याविनये विस्रम्भे चानुगोऽभवत् ।
रामस्य लक्ष्मणो नित्यं शत्रुघ्नो भरतस्य च ॥ ७८ ॥
दन्तैरिवेन्द्रद्विरदो वरुणः सागरैरिव ।
तैः सुतैः शुशुभे भूपः कैटभारिर्भुजैरिव ॥ ७९ ॥
शस्त्रास्त्रग्रामशिक्षाणां विद्यानां विशदाशयः ।
कलानां च बभूवुस्ते संक्रान्तिमणिदर्पणाः ॥ ८० ॥
इति रामादिपुत्रोत्पत्तिः ॥ २ ॥
अथ राजसभासीनं प्रविश्य प्रणता नृपम् ।
तूर्णमचुः प्रतीहारा हेमवेत्रांशुमालिनः ॥ ८१ ॥
देव तीव्रतपस्तेजःपुञ्जपिञ्जरिताम्बरः ।
विश्वामित्रो दिक्षुस्त्वामागच्छन्दृश्यते मुनिः ॥ ८२ ॥


१. रामायणसप्तदशसर्गे वानरावतरणकथा कविनान नोपनिवद्धा.