पृष्ठम्:रामायणमञ्जरी.pdf/१६०

पुटमेतत् सुपुष्टितम्
१५१
रामायणमञ्जरी ।


तस्या भुजङ्गकुटिलं केशपाशं क्षपाचरः ।
जवेनाभ्येत्य जग्राह कालपाशमिवात्मनः ॥ ९०० ॥
तस्यां केशेषु कृष्टायां घोरेण तमसा वृताः ।
दिशो नीलाम्बरेणेव वभूवुः पिहिताननाः ॥ ९०१ ॥
तां वीक्ष्य राक्षसाकृष्टां धुतपल्लवपाणयः ।
मञ्जर्यो मधुपालापाः प्रलापिन्यश्चकम्पिरे ॥ ९०२ ॥
मुखराभरणां व्योम्ना सामादाय जगाम सः ।
क्वणन्मधुकरां वल्लीमुन्मूल्येव महानिलः ॥ ९०३ ॥
बभौ भुजवने तस्य सीतामुखसरोरुहम् ।
दृश्यं क्वचिददृश्यं च शशीव घनपञ्जरे ॥ ९०४ ॥
रावणेन हृतां ज्ञात्वा रामस्य दयितां बलात् ।
कृतं कार्यममन्यन्त चतुर्मुखमुखाः सुराः ॥ ९०५ ॥
ततः पपात चरणान्मुखरो मणिनूपुरः ।
वैदेह्या राक्षसत्रासमुक्ताक्रन्द इव क्षितौ ॥ ९०६ ॥
हारमुक्ताफलान्यस्याः पतितानि चकाशिरे ।
दिवः प्रक्षीणपुण्यानि नक्षत्राणीव भूतले ॥ ९०७ ॥
तस्या विभूषणान्युग्रवेगगामिनि रावणे ।
कुसुमानीव मञ्जर्या व्यशीर्यन्त समन्ततः ॥ ९०८ ॥
उद्भ्रान्तभृङ्गभ्रूभङ्गाः सीतां शाखाभुजैर्मुहुः ।
न भेतव्यमिति प्राहुर्वृक्षाः पक्षिरुतैरिव ॥ ९०९ ॥
सिंहव्याघ्रा अपि रुषा सीताच्छायानुयायिनः ।
दंष्ट्राकरालैर्वदनैर्दशाननमतर्जयन् ॥ ९१० ॥
सीतापराभवामर्षमर्षणानुशयाकुलः ।
वैलक्ष्यादिव चण्डांशुर्बभूवापाण्डुमण्डलः ॥ ९११ ॥
दीप्तमौलिप्रभादामवेगदीर्घीकृतं बभौ ।
दशास्यस्य गतौ हैमं मानसूत्रमिवाम्बरे ॥ ९१२ ॥


१. 'दिशो दश' शा०.