पृष्ठम्:रामायणमञ्जरी.pdf/१६१

पुटमेतत् सुपुष्टितम्
१५२
काव्यमाला ।


गिरिशृङ्गगतान्यत्र साधुरूपान्प्लवङ्गमान् ।
विलोक्य सीता तत्याज भूषणान्युपलब्धये ॥ ९१३ ॥
ततः सागरमुल्लङ्घ्य लङ्कां प्राप दशाननः ।
रामचापच्युत इव क्षिप्रपाती शिलीमुखः ॥ ९१४ ॥
रामपत्नीं समादाय राजधानीं विवेश सः ।
स्वकुलक्षयदावाग्नेः शिखां पूर्वोद्गतामिव ॥ ९१५ ॥
रामस्य चरितं ज्ञातुं गूढानष्टौ स राक्षसान् ।
विससर्ज जनस्थाने सर्वप्राणिविचिन्तकान् ॥ ९१६ ॥
नानारत्नमयीं हेमहर्म्यामन्तःपुराबलीम् ।
दिव्यामदर्शयत्तस्या दर्पान्धो दशकंधरः ॥ ९१७ ॥
रक्षायै राक्षसीस्तस्या विधाय विकृताननाः ।
मेने स्वाधीनतां यातां स तामन्तकमोहितः ॥ ९१८ ॥
सोऽब्रवीद्रक्षसां विश्वजयिनां विश्रुतौजसाम् ।
द्वाचत्वारिंशदुग्राणां कोट्यो मम पदानुगाः ॥ ९१९ ॥
सुरकिंनरगन्धर्वविद्याधरमृगीदृशाम् ।
सीते शतसहस्राणि कामं मम परिग्रहः ॥ ९२० ॥
इयं मणिमयी लङ्का विमानं पुष्पकं च मे ।
दुर्लभं त्रिदशेन्द्राणां मनोरथगतेरपि ॥ ९२१ ॥
सोऽहं त्रिभुवनश्लाघ्यपरिवारपरिच्छदः ।
त्वदधीनः शशिमुखि त्वदालोकनजीवितः ॥ ९२२ ॥
यस्य मे भ्रूलतोत्क्षेपवर्तिन्यो विश्वसंपदः ।
सोऽहं त्वदाज्ञाप्रणयी जयत्यसमसायकः ॥ ९२३ ॥
अस्मिन्कल्पलतोद्याने रमस्व सुभगे मया ।
इदं पीनस्तनोदग्रं न चिरं चारु यौवनम् ॥ ९२४ ॥
त्यज रामगतामाशां नेयं प्राप्यापरैः पुरी ।
संकल्पाः पङ्गवो यस्यां का तत्र मरुतां गतिः ॥ ९२५ ॥