पृष्ठम्:रामायणमञ्जरी.pdf/१६२

पुटमेतत् सुपुष्टितम्
१५३
रामायणमञ्जरी ।


वदनेन्दुरयं लोकलोचनानन्दबान्धवः ।
न ते सितस्मिते भाति विषादजलदावृतः ॥ ९२६ ॥
प्रसीद सुमुखि स्मेरास्त्वत्पादनखकान्तयः ।
मयैताः प्रणतो नीता मौलिमालावतंसताम् ॥ ९२७ ॥
अशिक्षितप्रणामानां मानोन्नतिभृतां सदा ।
शिरसां मम सुश्रोणि नवोऽयं विनयक्रमः ॥ ९२८ ॥
श्रुत्वेति दशकण्ठस्य वैदेही दुःसहं वचः ।
ऊचे धृत्वा तृणं मध्ये निर्भया मरणैषिणी ॥ ९२९ ॥
दुर्वृत्त दुर्नयस्यास्य दर्पस्य विभवस्य च ।
अवश्यं तव काकुत्स्थः क्षयदीक्षां विधास्यति ॥ ९३० ॥
चौरस्येव प्रलापोऽयं वध्यभूमिं श्रितस्य ते ।
मूढ स्वस्थोऽसि मिथ्यैव मृत्योरङ्कगतः कथम् ॥ ९३१ ॥
सुहृद्भिर्विहर क्षिप्रं कुपितं च प्रसादय ।
रामभ्रूभङ्गदृष्टानां न पुनस्तैः समागमः ॥ ९३२ ॥
मण्डलीकृतचापस्य रामार्कस्य शरांशुभिः ।
भविष्यति क्षयोऽवश्यं तमसामिव रक्षसाम् ॥ ९३३ ॥
तपःक्लेशार्जितां लक्ष्मीं रक्ष राक्षसदुर्लभाम् ।
चित्रधूम इवैश्वर्यं विनाशयति दुर्नयः ॥ ९३४ ॥
श्रीलता मूलपरशुर्यशः शीतांशुवारिदः ।
ऐश्वर्यजलधेरौर्वः शुभाय कस्य दुर्नयः ॥ ९३५ ॥
एतास्तव दुराचार जीवितेन सह श्रियः ।
दुर्नयादिष्टमार्गेण यान्ति कालोपहारताम् ॥ ९३६ ॥
मां कोपाकुलितः क्षिप्रं भक्षय क्षणदाचर ।
न प्राप्याहं त्वया पाप श्वपाकेनेव यज्ञभूः ॥ ९३७ ॥
इति ब्रुवाणां वैदेहीं प्रत्युवाच दशाननः ।
अद्यापि परुषं सीते सहते रावणो वचः ॥ ९३८ ॥