पृष्ठम्:रामायणमञ्जरी.pdf/१६३

पुटमेतत् सुपुष्टितम्
१५४
काव्यमाला ।


संवत्सरेण यदि मे सीते नैष्यति वश्यताम् ।
सूदास्त्वां दारयिष्यन्ति ततो मम महानसे ॥ ९३९ ॥
इत्युक्त्वा राक्षसस्त्रीणां व्याघ्रीणां हरिणीमिव ।
हस्ते चिक्षेप तां तन्वीमशोकवनिकान्तरे ॥ ९४० ॥
सा राक्षसीभिर्घोराभिस्तर्ज्य॑माना वरानना ।
निमग्ना न स(?)माधातुमगाधे व्यसनोदधौ ॥ ९४१ ॥
अत्रान्तरे ब्रह्मवाक्यात्स्वयं देवः सुरेश्वरः ।
विधाय निद्रया मोहं राक्षसीनामलक्षितः ॥ ९४२ ॥
अभ्येत्य सीतां प्रोवाच शुचिचारित्रभूषणाम् ।
पुत्रि रामेण न चिरात्संगमस्ते भविष्यति ॥ ९४३ ॥
इत्याश्वास्य शनैः सीतां तस्यै विग्रहधारणम् ।
दिव्यं ददौ हविस्तृष्णाक्षुत्क्लमापहरं परम् ॥ ९४४ ॥
इति हविःप्रदानम् ॥ २७ ॥
रामोऽपि हेमहरिणाकारं हत्वा क्षपाचरम् ।
सीतामुत्कण्ठितो द्रष्टुं शङ्कमानो न्यवर्तत ॥ ९४५ ॥
स दुःखपिशुनं श्रुत्वा स्वरं गोमायुपक्षिणाम् ।
अज्ञात्वापि वधूवृत्तं हा सीतेति वदन्मुहुः ॥ ९४६ ॥
स दृष्ट्वा लक्ष्मणं दूरात्समायान्तमधोमुखम् ।
राक्षसैर्भक्षितां सीतां निःसंशयममन्यत ॥ ९४७ ॥
कथं त्रस्तकुरङ्गाक्षीं जानकीं विजने वने ।
त्यक्त्वा गतोऽसि सौमित्रे जीवितं मे हृतं त्वया ॥ ९४८ ॥
इति ब्रुवाणः सावेगः शङ्कादिष्टेन वर्त्मना ।
उपसृत्य ददर्शाशु सीतारहितमाश्रमम् ॥ ९४९ ॥
ततः स पतितः श्वभ्रे घोरे वा मकराकरे ।
ज्वालाकराले वह्नौ वा न किंचिद्बुबुधे क्षणात् ॥ ९५० ॥


१. 'न समेष्यसि वयताम्' ख-शा०. २ 'समादातु' क-शा०.