पृष्ठम्:रामायणमञ्जरी.pdf/१६४

पुटमेतत् सुपुष्टितम्
१५५
रामायणमञ्जरी ।


मनःसुब्रह्मचारिण्या सीतयैव विना कृतः ।
धृत्या सोऽभून्नवोद्भूतप्रभूतव्यसनाहतः ॥ ९५१ ॥
तस्य शोकाभिभूतस्य मोहमीलितचेतसः ।
सीतास्मृतिरपि क्षिप्रं क्वाप्यस्पन्ददृशो ययौ ॥ ९५२ ॥
संज्ञामासाद्य शनकैः सबाष्पं वीक्ष्य लक्ष्मणम् ।
ऊचे प्रिया मम त्यक्ता कथमेकाकिनी त्वया ॥ ९५३ ॥
व्यक्तं कान्तिमयं तस्या वपुः कुसुमकोमलम् ।
राक्षसैर्भक्षितं घोरैः शून्ये धिक्ते प्रमादिताम् ॥ ९५४ ॥
इत्युक्तः शोकतप्तेन भ्रात्रा सौमित्रिराकुलः ।
उवाच दुःखवैलक्ष्यदैत्यानां वशमागतः ॥ ९५५ ॥
त्वत्तुल्यस्वरमाक्रन्दं श्रुत्वा मायामृगस्य सा ।
व्रजेति शङ्कितमतिर्मामूचे दैवमोहिता ॥ ९५६ ॥
आर्यस्य विक्रमज्ञेन वारितापि मयासकृत् ।
उवाच परुषं तत्तद्येन मामविशत्तमः ॥ ९५७ ॥
मयि त्वत्पदवीं याते तद्वाक्यशरदारिते ।
मन्ये भवन्तमन्वेष्टुं सापि स्वयमितो गता ॥ ९५८ ॥
इति भ्रातुर्वचः श्रुत्वा रामः शोकविषाकुलः ।
चक्रारूढ इवाकाशं दिशश्च क्षणमैक्षत ॥ ९५९ ॥
तमेवाश्रममालोक्य तानेव च महीरुहान् ।
सीतामेकामपश्यन्स विललापाश्रुगद्गदः ॥ ९६० ॥
अयि प्रिये कदा नाम मन्युरेवंविधस्त्वया ।
गृहीतो मयि येनासि लताजालैस्तिरोहिता ॥ ९६१ ॥
अयं ते नर्मसचिवः शुकः किमपि मूकताम् ।
गतस्त्वद्विरहाद्विद्वानिव मूढसभां श्रितः ॥ ९६२ ॥
अयं स्तिमिततां यातः शिखी त्वकेलिनर्तकः ।
संचयस्त्वत्कटाक्षाणां राशीभूत इवानिशम् ॥ ९६३ ॥