पृष्ठम्:रामायणमञ्जरी.pdf/१६५

पुटमेतत् सुपुष्टितम्
१५६
काव्यमाला ।


विलासगतिशिष्यस्ते नूपुरारावतस्करः ।
न केलिकलहंसोऽयं शशीवाह्नि विराजते ॥ ९६४ ॥
संत्यक्तशष्पकवलः शिशुर्लीलाकुरङ्गकः ।
साश्रुस्त्वामीक्षते दिक्षु ग्रीवावलनविभ्रमैः ॥ ९६५ ॥
कोऽयं कठोरः कठिने मयि मानग्रहाग्रहः ।
गम्भीरः केन निर्बन्धो येन मौनं न मुच्यते ॥ ९६६ ॥
अयि प्रसीद सरले किर कर्णसुधां गिरम् ।
मिथ्या मदकलालापमानं मुञ्चन्तुं कोकिलाः ॥ ९६७ ॥
इति शोकानलाक्रान्ते रामे तारप्रलापिनि ।
प्रतिशब्दैर्गिरिगुहाश्चक्रुशुर्गद्गदैरिव ॥ ९६८ ॥
बभूवुर्भूरिमधुपालापशिञ्जानपङ्कजाः ।
आश्रमोपान्तवाप्योऽपि प्रलापमुखरा इव ॥ ९६९ ॥
रामं शोचन्तमालोक्य रोमन्थच्छेदनिश्चलाः ।
हरिण्यो मुमुचुर्वाष्पं निःस्पन्दायतलोचनाः ॥ ९७० ॥
स विचिन्वन्प्रियां वल्लीनिकुञ्जगहने वने ।
बभ्रामोद्भ्रान्तहृदयस्खलद्गतिविशृङ्खलः ॥ ९७१ ॥
फुल्लारविन्दवृन्देषु नीलोत्पलवनेषु च ।
स शुशोच मुखं तन्व्या दृशश्च ललितायताः ॥ ९७२ ॥
स किंजल्करजःपुञ्जपिञ्जरां वीक्ष्य मञ्जरीम् ।
पीतांशुकां शशिमुखीं शङ्कमानः समाद्रवत् ॥ ९७३ ॥
क्व सीतेति स पप्रच्छ चेतनाचेतनान्वने
शुचः प्रियवियोगोत्था दुःसहा महतामपि ॥ ९७४ ॥
सोऽब्रवीदेष बकुलः स्फुटं जानाति मे प्रियाम् ।
व्याप्तः समस्तमधुपैर्दिग्द्वीपान्तरचारिभिः ॥ ९७५ ॥
यत्पादनलिनन्यासस्तवाभूत्कुसुमश्रिये ।
अशोक शंस तां सीतामशोकं कुरु मामपि ॥ ९७६ ॥


१. 'शोचते' शा०.