पृष्ठम्:रामायणमञ्जरी.pdf/१६६

पुटमेतत् सुपुष्टितम्
१५७
रामायणमञ्जरी ।


मात्सर्योपहतो नूनं ममायं गजयूथपः ।
लीलागतिसपत्नीं तां कथं कथयति प्रियाम् ॥ ९७७ ॥
नैते वदन्ति दयितां निसर्गविजितास्त्वया ।
चमर्यः केशपाशेन दृग्विभागैः कुरङ्गकाः ॥ ९७८ ॥
हा प्रिये कुत्र दृश्यासि क्व च नः संगमस्त्वया ।
यदेते तरलाः क्वापि गन्तुं प्राणा ममोद्यताः ॥ ९७९ ॥
व्यक्तं मृगानुगेनैव भक्षिता राक्षसेन सा ।
निगीर्णस्तन्मुखशशी सशरीरेण राहुणा ॥ ९८० ॥
क्व सा विलासललिता दृष्टिर्लोलामृतच्छटा ।
रागाब्धिफेनधवलं क्व च तद्विभ्रमस्मितम् ॥ ९८१ ॥
चित्रं नवनवोल्लेखविनोदव्यसनी विधिः ।
चित्रं बल इवाकाले तदुन्मूलनलालसः ॥ ९८२ ॥
जाने निजासनाम्भोजाज्जातं जाड्यं प्रजासृजा ।
पुनः कर्तुमशक्यानि स्वकृतानि निहन्ति यत् ॥ ९८३ ॥
विलासवल्ली निर्लूना हतो विभ्रमपादपः ।
किं नाम न हृतं धात्रा हरता हरिणीक्षणाम् ॥ ९८४ ॥
अक्ष्णोः स्पन्दनमप्यासीद्यस्या विघ्नो विलोकने ।
सा कथं सह्यते कान्ता मनोरथपथं गता ॥ ९८५ ॥
हा प्रिये क्व नु यातासि दर्शय क्षणमाननम् ।
पूर्णेन्दुमिव लावण्यसुधासिन्धुसमुद्गतम् ॥ ९८६ ॥
रतिर्विरहितेनेव शोकान्तेनेव धीरता ।
मतिर्मोहहतेनेव हारितासि प्रिये मया ॥ ९८७ ॥
इत्युक्त्वा मोहमापेदे रामोऽपि धृतिसागरः ।
वियोगसारे संसारे स्नेह एव विपाशनम् ॥ ९८८ ॥
सर्वथा गुणसंनद्धा जीवमत्स्यापहारिणी ।
वियोगे बडिशाकृष्टिः लेहवृत्तिः शरीरिणाम् ॥ ९८९ ॥


१. 'पुनः' शा०. २. 'यास्यामि' शा०.