पृष्ठम्:रामायणमञ्जरी.pdf/१६७

पुटमेतत् सुपुष्टितम्
१५८
काव्यमाला ।


संज्ञामासाद्य शनकैरपश्यन्दयितां पुरः ।
दिवापि निखिलं लोकं निरालोकं ददर्श सः ॥ ९९० ॥
स निःस्पन्दतनुः स्थित्वा पङ्कमग्न इव द्विपः ।
पुनर्बभ्राम विपिने विषपीत इव स्खलन् ॥ ९९१ ॥
धृतिं न लेभे वल्लीषु स्थलीषु नलिनीषु च ।
कल्पवल्लीपरिभ्रष्टः स षट्पद इवाकुलः ॥ ९९२ ॥
रम्यं घोरं समं श्वभ्रं प्रियं द्वेष्यं स्थलं जलम् ।
ध्यानैकाग्रः स योगीव सर्वं तुल्यममन्यत ॥ ९९३ ॥
स शशीव निशाहीनः परिम्लानाननद्युतिः ।
विलोकयन्वनमहीं दीनः प्रोवाच लक्ष्मणम् ॥ ९९४ ॥
संचारिणी मनोवृत्तिः क्व मे लक्ष्मण सा प्रिया ।
गतदीपशिखापात्रं तया हीनमवेहि माम् ॥ ९९५ ॥
सीताविरहसंतप्तं व्यक्तमुत्क्रान्तजीवितम् ।
अरक्षितस्मरनिधिं स्वर्गे द्रक्ष्यति मां पिता ॥ ९९६ ॥
रक्षश्चूर्णीकृतं तस्याः स्रस्तमेतद्विभूषणम् ।
हेमरत्नकणैः कीर्णं पश्य पुष्पैश्च मेदिनीम् ॥ ९९७ ॥
द्रुतविद्रुमसंकाशप्रत्यग्ररुचिरश्रुतिः ।
सीताहेतोर्वदत्येषा युद्धं राक्षसयोरिव ॥ ९९८ ॥
इहैव भक्षिता नून राक्षसाभ्यां मृगेक्षणा ।
वनेऽस्मिन्निःसहायस्य धृतिमूर्तिमतीव मे ॥ ९९९ ॥
इतः क्रोशान्तरे पश्य तपनीयमयं महत् ।
छत्रं रत्नशलाकाढ्यं स्रस्तं सूर्यमिवाम्बरात् ॥ १००० ॥
मणिमौक्तिकहेमाङ्कं वैडूर्यगुणमायतम् ।
भग्नं धनुरिदं पश्य मेघसंघादिव च्युतम् ॥ १००१ ॥
विशीर्णं पश्य विपुलं कवचं काञ्चनाचितम् ।
संध्याग्रमिव वातेन पातितं गिरिशेखरात् ॥ १००२ ॥


१. 'समं सम' शा०.