पृष्ठम्:रामायणमञ्जरी.pdf/१७०

पुटमेतत् सुपुष्टितम्
१६१
रामायणमञ्जरी ।


किं वा करोमि सौमित्रे तं न पश्यामि खेचरम् ।
पृच्छामि निर्जने कं वा वद गच्छामि कां दिशम् ॥ १०२८ ॥
इति वादिनमामग्नं तं शोकमकराकरे ।
अन्तःशल्याहतमना धीरः प्रोवाच लक्ष्मणः ॥ १०२९ ॥
तुल्यजन्मनि संसारे वैलक्षण्यमिदं सताम् ।
दुःखेऽपि मोहतमसा यदेषां स्पृश्यते न धीः ॥ १०३० ॥
सतां कृच्छ्रेषु पाण्डित्यमद्रव्यं दुःखभेषजम् ।
न तत्सुखे विहारे वा विभवे चोपयुज्यते ॥ १०३१ ॥
गुरवोऽपि निमज्जन्ति व्यसनाब्धावसाधवः ।
मग्नाः परमधो यान्ति लघवोऽप्यबुधाः खलाः ॥ १०३२ ॥
धैर्यं यदि न दुःखेषु नोदये विनयो यदि ।
तदयं शिक्षितो मिथ्या विवेकः क्वोपयुज्यते ॥ १०३३ ॥
यदर्थं शोचति नरस्तच्छोकाहतचेतनः ।
विनश्यति तदप्राप्त्या समूलः सोऽपि नश्यति ॥ १०३४ ॥
धृतिर्दुःखे मतिर्मोहे क्षान्तिः कोपे गुणे नतिः ।
मतिः प्रभावे महतां सततं सहचारिणी ॥ १०३५ ॥
निरस्य शोकवैक्लव्यमार्य धैर्यमहोदधे ।
अन्विष्यतां जनकजा विधिः सिद्धिं विधास्यति ॥ १०३६ ॥
इत्युक्तोऽपि न तत्याज स सीताविरहव्यथाम् ।
शाम्यति प्रौढशोकाग्निर्नोपदेशाम्बुशीकरैः ॥ १०३७ ॥
सोऽब्रवीन्न सदाचारस्थितस्य मम मैथिली ।
दैवेन रक्षिता मन्ये धर्मं नापेक्षते विधिः ॥ १०३८ ॥
धर्ममार्गानुगस्येष्टं यदि नाम विपद्यते ।
तेन नास्तिक्यशङ्कैव विदुषामपि जायते ॥ १०३९ ॥
विधिरद्य सकामोऽस्तु मम वामः शिवोऽस्तु वः ।
सीतामनुगते धैर्ये जीवितं गन्तुमुद्यतम् ॥ १०४० ॥