पृष्ठम्:रामायणमञ्जरी.pdf/१७४

पुटमेतत् सुपुष्टितम्
१६५
रामायणमञ्जरी ।


स कृत्तबाहुः कुलिशच्छिन्नपक्ष इवाचलः ।
पपात रुधिरोद्गारैर्धातुनिर्झरवानिवः ॥ १०७८ ॥
स हृष्टो राममवदत्त्वत्प्रसादादहं विभो ।
विमुक्तः शापजनिताद्वैरूप्यादतिदुःसहात् ॥ १०७९ ॥
दनुर्नाम श्रियः पुत्रः पूर्वजो रूपवानहम् ।
दिवाकरेन्दुवह्नीनामभवत्तुल्यदीधितिः ॥ १०८० ॥
लब्धप्रभावस्तपसा युधि निर्जितवासवः ।
त्रासं दर्पादकरवं मुनीनां घोररूपकृत् ॥ १०८१ ॥
ततः स्थूलशिरा नाम कोपान्मामशपन्मुनिः ।
कबन्धविकृतः पाप घोर एव भविष्यति ॥ १०८२ ॥
रामेण निकृत्तभुजः स्वं रूपं प्रतिपत्स्यसे ।
इत्यहं तेन मुनिना शप्तः कोपाकुलोऽभवम् ॥ १०८३ ॥
शक्रोऽपि लब्धावसरः कुलिशेन जघान माम् ।
येनाहं विशिराः क्षिप्रमिमां यातः कवन्धताम् ॥ १०८४ ॥
आहारार्थमिमी बाहू वक्त्रं चेदं ममोदरे ।
निर्मितं सुरराजेन मांसपिण्डोपमाकृते ॥ १०८५ ॥
सोऽहं त्वया कृत्तभुजः शापान्मुक्तोऽद्य राघव ।
वृत्ते शरीरसंस्कारे निजं प्राप्स्यामि तद्वपुः ॥ १०८६ ॥
लब्धज्ञानः प्रियालाभोपायं वक्ष्यामि ते ततः ।
श्रुत्वैतद्वह्निमादाय रामस्तमदहत्क्षणात् ॥ १०८७ ॥
अथोदतिष्ठत्स चितामध्यात्कमललोचनः ।
दिव्याम्बरधरः स्रग्वी रत्नकेयूरशोभनः ॥ १०८८ ॥
निर्मितश्चन्द्रचूडेन पूर्णचन्द्रनिभाननः ।
रतिप्रलापकारुण्यात्पुष्पचाप इवापरः ॥ १०८९ ॥
विमानेनार्कवर्णेन गगनं वेगशालिना ।
गाहमानः स सहसा जगाद रघुनन्दनम् ॥ १०९० ॥


१.'शेखरः' क.