पृष्ठम्:रामायणमञ्जरी.pdf/१७५

पुटमेतत् सुपुष्टितम्
१६६
काव्यमाला ।


ऋष्यमूकगिरेः शृङ्गे सुग्रीवो वानरेश्वरः ।
निरस्तो वालिना भ्रात्रा मतङ्गस्याश्रमे स्थितः ॥ १०९१ ॥
तेन सख्यं विधाय त्वं सीतामधिगमिष्यसि ।
एष ते दक्षिणः पन्था यत्र पम्पासरो महान् ॥ १०९२ ॥
अनावृष्टिहते काले गुर्वर्थं फलहारिणाम् ।
पुरा मतङ्गशिष्याणां पतिताः स्वेदबिन्दवः ॥ १०९३ ॥
यत्र याता लताजालेष्वपरिम्लानपुष्पताम् ।
यत्र सा सिद्धवसतिर्दृश्यते भास्वरप्रभा ॥ १०९४ ॥
शुद्धमांसफलाहारा शीतवारिगतक्लमा ।
तत्र दिव्यजनाकीर्णे देशे निर्वृत्तिमाप्स्यति ॥ १०९५ ॥
तं गिरिं बदराहारो मतङ्गस्याज्ञया मुनेः ।
शिशुमाराभिधो दैत्यः सततं परिरक्षति ॥ १०९६ ॥
नात्र प्रवेशं लभते पापकर्मा न नास्तिकः ।
स्वप्नदृष्टं शुभं तत्र प्रातः प्रत्यक्षमाप्स्यसि ॥ १०९७ ॥
यस्याभिषेकरुचिरा गिरयो जङ्गमा इव ।
मतङ्गशासनादत्र कुञ्जराननुकुर्वते ॥ १०९८ ॥
स्वस्ति तेऽस्तु व्रज क्षिप्रं चेत्युक्त्वा कमलासुतः ।
खं विवेशांशुभिः कुर्वन्कौमुदीविषदा दिशः ॥ १०९९ ॥
इति कबन्धवधः ॥ ३० ॥
रमणीविरहध्यानविधुरः पाण्डुरद्युतिः ।
रामः पूर्णनिशाहीनः शशीव तनुतां ययौ ॥ ११०० ॥
दिनमुत्फुल्लनयनं निशां वा सनिशाकराम् ।
न स सेहे सुवदनावदनध्याननिश्चलः ॥ ११०१ ॥
स श्रीसुतोपदिष्टेन वर्त्मना शनकैर्व्रजन् ।
ददर्श सिद्धशबरीं मूर्तामिव तपःश्रियम् ॥ ११०२ ॥


१. 'पीत' शा०. २. 'भवांस्तत्र' ख-शा०. ३. 'प्स्यसे' ख; प्स्यते' शा०.