पृष्ठम्:रामायणमञ्जरी.pdf/१७६

पुटमेतत् सुपुष्टितम्
१६७
रामायणमञ्जरी ।


स्फाटिकेनाक्षसूत्रेण विभूषितकुचस्थलाम् ।
मुखेन्दुस्रुतलावण्यविन्दुमालाङ्कितामिव ॥ ११०३ ॥
ललाटफलकालीनपुण्यभस्मत्रिपुण्ड्रकाम् ।
शुभ्रां धवलसंपृक्तचन्द्रामिव विभावरीम् ॥ ११०४ ॥
तां वल्कलवतीं दिव्यप्रभापटलपल्लवाम् ।
कल्पवल्लीमिवालोक्य क्लमं तत्याज राघवः ॥ ११०५ ॥
विलोक्य सानुजं रामं पूज्यापि प्रणनाम सा ।
वैराग्यधूतमनसामभिमानरजः कुतः ॥ ११०६ ॥
तामूचे राघवः प्रह्वामिदं ते विमलं तपः ।
करोत्यरागसंतोषहर्षस्तबकितं मनः ॥ ११०७ ॥
मोहहीनां मनोवृत्तिं रागद्वेषविषोज्झिताम् ।
कथयत्येव निर्विघ्नप्रसन्नमधुरं वपुः ॥ ११०८ ॥
विधत्ते हृदि वैषद्यं वैमल्यं च सुलोचने ।
पुण्यप्ररोहं च तनौ दर्शनं पुण्यचेतसाम् ॥ ११०९ ॥
परिपूर्णतपःसिद्धिर्मनुना कथितास्ति मे ।
यस्यास्ते गुरवः सिद्धा मुनयो मोक्षगामिनः ॥ १११० ॥
इति रामवचः श्रुत्वा शबरी प्रत्यभाषत ।
साधो त्वद्दर्शनफला तपःसिद्धिरियं मम ॥ ११११ ॥
अजलं तीर्थममलमकायक्लेशदं तपः ।
अजीवितान्ता स्वगतिः सत्यं साधुसमागमः ॥ १११२ ॥
आश्रमोऽसौ मतङ्गस्य यत्र ते गुरवो मम ।
प्रयाताः परमां सिद्धिं ज्ञानपूता हुतानलाः ॥ १११३ ॥
अपरिम्लानकुसुमः प्रत्यग्रकुशपादपः ।
देशोऽयं तत्प्रसादेन सततं परिदृश्यते ॥ १११४ ॥
चिन्तयैव च कुर्वन्ति संनिधिं सप्तसागराः ।
निखिलान्यपि तीर्थानि निवसन्ति तदाज्ञया ॥ १११५ ॥


१. 'विसमालाशया' शा०.