पृष्ठम्:रामायणमञ्जरी.pdf/१८

पुटमेतत् सुपुष्टितम्
रामायणमञ्जरी।

बालोऽयमिति रामस्य जये मा संशयं कृथाः ।
वसिष्ठमुख्या मुनयः प्रभावज्ञाः सुतस्य ते ॥ ९६ ॥
इति श्रुत्वा मुनिवचो भूपतिः कम्पिताशयः ।
उवाच भगवन्बालः कथं रक्षःक्षयक्षमः ॥ ९७ ॥
अक्षौहिणीपरिवृते स्थिते मयि सकार्मुके।
शिशौ संभावना केयं घोरे समरकर्मणि ॥ ९८ ।।
सज्जोऽहं ऋतुरक्षायै दीक्षितस्य तव स्वयम् ।
नववर्षसहस्राणि व्यतीतानि ममायुषः ।
चिन्तासंतप्तमनसः पुत्रलाभमनोरथैः ॥ ९९ ॥
सुचिरादुचितः पुत्रो जातो वयसि पश्चिमे ।
नेश्वरोऽहं परित्यक्तुं रामं राजीवलोचनम् ॥ १०० ॥
इति ब्रुवाणमसकृद्भूपालं पुत्रवत्सलम् ।
उवाच कौशिकः किंचिदसूयारचितस्मितः ॥ १०१ ।।
अहो नु कातरस्येव स्नेहमोहहता मतिः ।
तव राजन्न जानीषे यत्पुत्रस्य पराक्रमम् ॥ १०२ ॥
स्वयं किं कृत्यमित्युक्त्वा कार्यकाले विमुद्यति ।
यथागतं व्रजाम्येष तव सत्यच्युतः सुखी ॥ १०३ ॥
इत्युक्त्वा विरते कोपात्कम्पमाने महामुनौ ।
विचचाल तदा पृथ्वी भेजिरे च भयं सुराः ॥ १०४ ।।
ततो जगाद भगवान्वशिष्ठः शमिनां वरः ।
इक्ष्वाकुवंशजो राजन्प्रतिज्ञा मा वृथा कृथाः ॥ १०५ ।।
बहुप्रभावः पुत्रस्ते न शङ्कां कर्तुमर्हसि ।
दुष्टक्षयात्क्षितित्राणात्क्षत्रियः किल जायते ॥ १०६ ॥
गुप्तः स्वयं कौशिकेन मुनिना प्राज्यतेजसा ।
ब्रह्मणेवासुरपतिर्दुर्जयोऽयं हि राघवः ॥ १०७ ।।


१. 'पष्टिवर्ष' रामायणे.