पृष्ठम्:रामायणमञ्जरी.pdf/१८०

पुटमेतत् सुपुष्टितम्
१७१
रामायणमञ्जरी ।


आलिङ्गति लतासालं नदी श्लिष्यति भूधरम् ।
अप्यादत्ते नवौत्सुक्यं चैत्रश्चित्रमचेतसाम् ॥ ११५३ ॥
वसन्ते पुष्पसंतानसुभगामोदमन्दिराः ।
हा प्रिये तरवो रम्या ममैते विषपादपाः ॥ ११५४ ॥
इति पुष्पानिलामोदमूर्छितो विरहातुरः ।
रामः शोचन्प्रियतमां बभ्राम गिरिसानुषु ॥ ११५५ ॥
तं सानुजं धनुष्पाणिमृष्यमूकतटे स्थितः ।
दूरादालोक्य सुग्रीवः किमप्याशङ्कितोऽभवत् ॥ ११५६ ॥
ततस्तदनुगाः सर्वे वानराः कम्पिताङ्गकाः ।
उत्प्लुत्योत्प्लुत्य सहसा शिखराच्छिखरं ययुः ॥ ११५७ ॥
जवेन व्रजतां तेषां मलयं निलयं श्रियः ।
उरुवाताहताः पेतुर्वृक्षाः कुसुमवर्षिणः ॥ ११५८ ॥

इति वसन्तवर्णनम् ॥ ३३ ॥

इति श्रीक्षेमेन्द्रविरचिते रामायणकथासारे समाप्तमारण्यपर्व ।


ततः शिखरिशृङ्गस्थः सुग्रीवः प्रणतान्पुरः ।
उवाच हनुमन्मुख्यान्सचिवान्वालिशङ्कितः ॥ १ ॥
शौर्याभिमानाभरणौ नवौ कमललोचनौ ।
विजयव्यञ्जनभुजावेतौ शङ्कास्पदं मम ॥ २ ॥
प्रयुक्तौ वालिना नूनं वीराचस्मद्वधोद्यतौ ।
तपोवने सायुधयोः संचारः कथमन्यथा ॥ ३ ॥
वाली नास्मासु निश्चिन्तश्छिद्रान्वेषी च सर्वथा ।
वक्रः श्रीरक्षणे राज्ञां कर्कशो हि नयक्रमः ॥ ४ ॥
एतौ तस्मादितो गत्वा त्वं ज्ञात्वेङ्गितचेष्टितम् ।
पृष्ट्वा वृत्तान्तमखिलं कृत्यं जानीहि यत्क्षमम् ॥ ५ ॥
सुग्रीवेणेत्यभिहिते हनुमान्पवनात्मजः ।
प्रययौ ब्राह्मणवपुर्योगेन रघुनन्दनौ ॥ ६ ॥


१. 'कुलः' ख.