पृष्ठम्:रामायणमञ्जरी.pdf/१९१

पुटमेतत् सुपुष्टितम्
१८२
काव्यमाला ।


तं निष्पतन्तं वेगेन सुग्रीवाह्वानदुःसहम् ।
तारा तारापतिमुखी परिष्वज्य प्रियावदत् ॥ १३५ ॥
शुभ्रावपातसचिवं संत्यक्तक्रोधविप्लवम् ।
केवलं धैर्यमालम्ब्य कर्तुमर्हसि सांप्रतम् ॥ १३६ ॥
न जल्पन्ति न शृण्वन्ति न कुर्वन्त्यपरीक्षितम् ।
विचाररुचिरा लोकाः साधवो दीर्घदर्शिनः ॥ १३७ ॥
समः समस्तजन्तूनामपि क्रोधमदोदयः ।
विचाराभिहतावेगः सतां न कुरुते पदम् ॥ १३८ ॥
निरस्तः संयुगे भग्नः स तथापि तवानुजः ।
निराशः केन दर्पेण पुनर्योद्धुमिहागतः ॥ १३९ ॥
अवश्यं संश्रयस्तेन प्राप्तो नीतिमता स्थिरः ।
कुतोऽन्यथा नवस्तस्य प्रसह्य त्वज्जयोद्यमः ॥ १४० ॥
अभिभूतो बलवता रिपुर्बलवदाश्रयः ।
नवप्रभावदर्पेण नाहत्वा विनिवर्तते ॥ १४१ ॥
सुग्रीवेणाश्रितो धन्वी रामो दशरथात्मजः ।
शौर्यशीलो दयाम्भोधिरिति मामङ्गदोऽवदत् ॥ १४२ ॥
बलिना संधिमिच्छन्ति युध्यन्ते हीनशक्तिना।
सदा तुल्यमुपेक्षन्ते श्रीकामा विजिगीषवः ॥ १४३ ॥
जितोऽपि पुनरायातः शङ्के जीवितनिःस्पृहः ।
सहसापातिना दीपः पतङ्गेनापि हन्यते ॥ १४४ ॥
भ्राता संभाव्यतामेष राघवश्च प्रसाद्यताम् ।
प्रणामेनापि भूपानां स्थाने विभवरक्षणम् ॥ १४५ ॥
प्रियावचनमाकर्ण्य वाली विगतसाध्वसः ।
उवाच निःश्वसन्प्रौढकोपस्मितसिताननः ॥ १४६ ॥
भग्नग्रीवोऽपि सुग्रीवो गतश्चेत्पुनरागतः ।
शौर्यशाली कथं वाली सहते तत्पराभवम् ॥ १४७ ॥


१. 'धैर्यण शा०.