पृष्ठम्:रामायणमञ्जरी.pdf/१९२

पुटमेतत् सुपुष्टितम्
४८३
रामायणमञ्जरी ।


न नाम निधनं दुःखं जातोऽवश्यं विपद्यते ।
सजीवमेव मरणं मानभङ्गो हि मानिनाम् ॥ १४८ ॥
शूराः शत्रुयशःशुभ्रकर्मपाटनलम्पटाः ।
परप्रणाममलिनं भुञ्जते विभवं कथम् ॥ १४९ ॥
नास्ति रामेण मे युद्धं सुग्रीवः संगरे पुनः ।
प्रयास्यत्येव भग्नाङ्गः स वध्यो मम नानुजः ॥ १५० ॥
इत्युक्त्वा वलितग्रीवः परिष्वज्य प्रियाप्रियः ।
अपुनर्दर्शनायैव तारामामन्त्र्य निर्ययौ ॥ १५१ ॥
स सुग्रीवं समासाद्य दृष्ट्वा निष्कम्पमोजसा ।
विस्मितो मुष्टिनाभ्येत्य जघान घनगर्जितः ॥ १५२ ॥
तन्मुष्टियुद्धमभवज्जगतां कम्पकारणम् ।
घोरशब्दं शिलाघातैस्तयोः पर्वतयोरिव ॥ १५३ ॥
गाढप्रहाराभिहतौ तौ स्फाररुधिरारुणौ ।
बभतुः किंशुकाशोकौ फुल्लाविव रणाङ्गणे ॥ १५४ ॥
ततो सालेन सुग्रीवो वालिनं हेममालिनम् ।
अताडयत्क्षितौ येन सोऽपि शैल इवापतत् ॥ १५५ ॥
तूर्णमुत्थाय सुग्रीवं कुपितः स बलोत्कटः ।
दोर्भ्यामादाय विदधे मृत्योः कवलनोचितम् ॥ १५६ ॥
संकटे वर्तमानं तं दूरादालोक्य राघवः ।
रुधिरोद्गारिणं भेजे सुहृन्निधनसंशयम् ॥ १५७ ॥
स संधाय शरं घोरं कालदंष्ट्रोत्कटाननम् ।
स्वर्गारोहणसोपानं विससर्जाशु वालिने ॥ १५८ ॥
स तेनाभिहतो वेगान्निपपात महीतले ।
जगतां दुर्निमित्ताय भ्रष्टः सूर्य इवाम्बरात् ॥ १५९ ॥
स दृष्ट्वा रुधिरष्ठीवी राघवं गद्गदस्वरः ।
ऊचे संस्तभ्य कृच्छ्रेण जीवितच्छेदिनीं व्यथाम् ॥ १६० ॥