पृष्ठम्:रामायणमञ्जरी.pdf/१९३

पुटमेतत् सुपुष्टितम्
१८४
काव्यमाला ।


मामन्यरणसंसक्तं त्वया हत्वा यशस्विना ।
राम त्यक्तार्यवृत्तेन किं नाम सुकृतं कृतम् ॥ १६४ ॥
आत्मानमनुशोचामि न तारां चारुलोचनाम् ।
हते मयि हतो मन्ये प्रियः पुत्रो ममाङ्गदः ॥ १६२ ॥
इत्युक्त्वा श्वासतरलप्राणः संचारनिःस्पृहः ।
मुहूर्तं निश्चलस्तस्थौ वाली मीलितलोचनः ॥ १६३ ॥
इति वालिवधः ॥ ४ ॥
तस्मिन्निपतिते वीरे प्रवरे सत्त्वशालिनाम् ।
तं देशमाययौ रामः शनैः सौमित्त्रिणा सह ॥ १६४ ॥
तं वीक्ष्य वाली प्रोवाच किंचिदुन्मील्य लोचने ।
स्रस्तं भारमिवासक्तां हेममालां परामृशन् ॥ १६५ ॥
कुले महति जातस्य गुणिनः सत्त्वशालिनः ।
न कामादार्य मर्यादाविध्वंसी धीः प्रवर्तते ॥ ४६६ ॥
राम एव सदाचारः सर्वभूतहिते रतः ।
कथमेकपदे नष्टमिति मे विषदं यशः ॥ १६७ ॥
औचित्यचारुचरिते शङ्का मे नाभवत्त्वयि ।
विपन्नघाती काकुत्स्थ इति कस्याशये स्पृशेत् ॥ १६८ ॥
लोकेषु रुचिरा कीर्तिराचारः पुनरीदृशः।
दम्भध्वजानां जानाति को नु मिथ्याविनीतताम् ॥ १६९ ॥
पातकं मैथिलीलाभलोभेन भवता यदि ।
अविचार्य कृतं राम तत्रापि श्रूयतामिदम् ॥ १७० ॥
संध्यासमाधौ सप्ताब्धिचारिणा रावणः पुरा ।
कक्षायां स मया क्षिप्तः सीतां तव जहार यः ॥ १७१ ॥
सुग्रीवसेवारजसा मिथ्यैवासि कलङ्कितः ।
तमहं रावणं बद्ध्वा किं न दद्यां तव प्रियाम् ॥ १७२ ॥


१. 'हासिनीम्' शा०. २. 'महतः' शा०. ३. 'मर्यादाध्वंसे चेतः' शा०. शा०. ५. 'प्रच्छन्नपापी शा०.