पृष्ठम्:रामायणमञ्जरी.pdf/१९४

पुटमेतत् सुपुष्टितम्
१८५
रामायणमञ्जरी ।


उचितं मन्निजभ्राता सुग्रीवः श्रियमश्नुते ।
नोचितं यत्सतां मार्गाद्रामः प्रीत्या परिच्युतः ॥ १७३ ॥
इत्युक्तो वानरेन्द्रेण रामः किंचिदधोमुखः ।
उवाच घर्षणामन्युप्रलीनकरुणाकणः ॥ १७४ ॥
अहो बतात्यधर्मस्य गतिं जानासि वानर ।
भ्रातृजायारतः पाप किं साधुरिव भाषसे ॥ १७५ ॥
अन्यस्य दोषं पश्यन्ति सुसूक्ष्ममपि तत्पराः ।
स्वनेत्रमिव नेक्षन्ते स्वदोषं मलिना जनाः ॥ १७६ ॥
भ्रातृजायारतवधो नाधर्मो मम रूपतः ।
राजदण्डविशुद्धानां गतिः सुकृतिनामिव ॥ १७७ ॥
राजानो मृगयाशीलास्त्वं च शाखामृगो मया ।
निहतः कानने हिंस्रस्तत्र का नाम वा च्युतः ॥ १७८ ॥
राघवेनेत्यभिहिते चिन्तयन्भवितव्यताम् ।
वाली विगलितक्रोधः क्षम्यतामित्युवाच तम् ॥ १७९ ॥
ततः श्रुत्वा हतं तारा वालिनं भुजशालिनम् ।
अग्रे कृत्वाङ्गदं पुत्रं शोचन्ती तूर्णमाययौ ॥ १८० ॥
स समभ्येत्य दयितं परिष्वज्यायतेक्षणा ।
दुःखाब्धिमग्ना प्रोवाच सृजन्ती बाष्पदुर्दिनम् ॥ १८१ ॥
अहो नु रामवाणेन जीवितं हरता तव ।
अदृश्यपातिना दूराद्दारितं हृदयं मम ॥ १८२ ॥
उन्मील्य नयने नाथ शिशुं पश्याङ्गदं सुतम् ।
दीर्घप्रवासिनः पुत्रदर्शनं ते पुनः कुतः ॥ १८३ ॥
सततं कण्ठनिहितां हेममालामिमां प्रियाम् ।
स्वर्गस्त्रीसंगमव्यग्रः कथं मामिव नेक्ष्यसे ॥ १८४ ॥
दृष्टिः प्रसादमधुरा पुत्रप्रणयिनी क्व ते ।
प्रेमामृतमयः क्वासौ दयितासंगमोत्सवः ॥ १८५ ॥


१. 'यन्निजभ्रातुः' शा०. २. 'सुधा' शा०.

२४