पृष्ठम्:रामायणमञ्जरी.pdf/१९५

पुटमेतत् सुपुष्टितम्
१८६
काव्यमाला ।


रुमा यदि हता भार्या सुग्रीवस्य प्रिया त्वया ।
ततः प्राणैः कृता शुद्धिर्निर्दोषा त्वहमांहता ॥ १८६ ॥
वीर मानोन्नतग्रीव सुग्रीवाग्नौ निवेश्य माम् ।
भ्रातृशोणितसंसिक्तां भजस्व विपुलां श्रियम् ॥ १८७ ॥
पत्यौ समस्तसंकल्पकल्पवृक्षे तिरोहिते ।
पिता बन्धुः सुतो भ्राता निष्फलः किल योषिताम् ॥ १८८ ॥
सीता यदि हृता सर्वैरेकीभूतैः सुरासुरैः ।
तत्प्राप्तिप्रवरो वाली राम किं नाश्रितस्त्वया ॥ १८९ ॥
वैदेहीविरहे शापं वितरामि न ते सती ।
किं तु प्राप्तामपि चिरं न सीतामुपभोक्ष्यसे ॥ १९० ॥
अहो रागान्धमनसामविवेकपरिप्लवः ।
सुग्रीवः संश्रयो येषां वाली येषां वधोचितः ॥ १९१ ॥
अहो रामस्य मोहो वा दैवं वा वालिनः परम् ।
चूतश्छिन्नः श्रितो निम्बः पान्थेन क्रियतेऽत्र किम् ॥ १९२ ॥
इति प्रलापिनी तारा तारेव गगनच्युता ।
क्षितौ पपात च्छिन्नाग्रहारमुक्ताश्रुवर्षिणी ॥ १९३ ॥
तां तथा शोकविवशां क्रोशन्तीं करुणस्वनाम् ।
सपत्नीभिर्वृतां वृद्धः प्रोवाचान्तःपुराधिपः ॥ १९४ ॥
कष्टं शक्रसुतो वाली शक्रतुल्यः क्षयं गतः ।
मुग्धे किं क्रियते धात्रा देहिनो न स्थिराः कृताः ॥ १९५ ॥
अस्मिन्नित्यमविच्छिन्ने दीर्घे संसारवर्त्मनि ।
गच्छन्प्रियः प्रियस्यापि न मुहूर्तं प्रतीक्षते ॥ १९६ ॥
प्रियाणामप्रियाणां च जगतो जीवितस्य च ।
अवश्यं निधनं ज्ञात्वा कः शोकः कर्तुमर्हति ॥ १९७ ॥
शोच्यं शोचति नामासौ यः परेण न शोच्यते ।
शोचत्यासन्ननाशोऽपि सेयमन्धपरम्परा ॥ १९८ ॥