पृष्ठम्:रामायणमञ्जरी.pdf/१९६

पुटमेतत् सुपुष्टितम्
१८७
रामायणमञ्जरी ।


तरङ्गभङ्गुरा भोगा दृष्टनष्टा विभूतयः ।
धनं यौवनमायुश्च नित्यशोकस्य किं शुचा ॥ १९९ ॥
भूतानामनुभूतानां संभूतानां क्षयः क्षणे ।
प्रियाणां च प्रयातानां न शोकात्पुनरागमः ॥ २०० ॥
इति वृद्धे वदत्यस्या न शोकस्तनुतां ययौ ।
वियोगहृतचित्तानामुपदेशः क्व भेषजम् ॥ २०१ ॥
इति ताराप्रलापः ॥ ५ ॥
वाली लोचनमुन्मील्य विलोक्याङ्गदमग्रतः ।
रामसुग्रीवमुख्यानामुवाच शनकैः परः ॥ २०२ ॥
न जीवितपरित्यागदुःखं स्पृशति मे मनः ।
शोकोऽयं यन्न पश्यामि चन्द्रमन्ध इवात्मजम् ॥ २०३ ॥
भ्रातः सुग्रीव कारुण्याज्जीर्णं मन्युं निरस्य मे ।
पुत्रः पाल्योऽङ्गदः प्रीत्या सोऽयं भृत्यस्तवाधुना ॥ २०४ ॥
शिरश्चरणयोः पुत्र सुग्रीवस्य कृपावतः ।
क्षिप क्षितिपतेरस्य विनयेनैव जीवसे ॥ २०५ ॥
हेमपद्ममयीं मालां शक्रदत्तामिमां मम ।
दिव्यां गृहाण सुग्रीव मूर्तामिव नृपश्रियम् ॥ २०६ ॥
एतत्प्रभावान्नाद्यापि निर्गच्छन्त्यसवो मम ।
इत्युक्त्वा तां ददौ तस्मै मालां कमलपुष्कराम् ॥ २०७॥
प्रियाप्रलपितं शृण्वन्नङ्गदन्यस्तलोचनः ।
आलिङ्ग्यैवावनिं वाली ततस्तत्याज जीवितम् ॥ २०८ ॥
अङ्गदोऽथ ससुग्रीवः प्रवरैः सह वानरैः ।
वालिनः साग्निसंस्कारां चकार सलिलक्रियाम् ॥ २०९ ॥
रामाज्ञया ततस्तूर्णं छत्त्रव्यजनलाञ्छनः ।
अभिषेकोत्सवः सज्जः सुग्रीवस्य बभौ पुरः ॥ २१० ॥


१. 'प्रभूतानां ख. २. 'मुपायोगस्त्व' क. ३. 'कनक' शा०.