पृष्ठम्:रामायणमञ्जरी.pdf/१९७

पुटमेतत् सुपुष्टितम्
१८८
काव्यमाला ।


अभिषिक्तेऽथ सुग्रीवे जाम्बवत्प्रमुखैः स्वयम् ।
यौवराज्यश्रियं भेजे राघवस्य गिराङ्गदः ॥ २११ ॥
ततः प्रावृषमालोक्य राघवः समुपस्थिताम् ।
निःसंचारोचितं कालं ज्ञात्वा सुग्रीवमब्रवीत् ॥ २१२ ॥
अहं वर्षाक्षयाकाङ्क्षी तटे माल्यवतो गिरेः ।
निवसामि त्वमप्यस्मान्कृत्यकाले समेष्यसि ॥ २१३ ॥
इति सुग्रीवमामन्त्र्य सीताविरहनिःसहः ।
सौमित्त्रिणा सह ययौ रामः प्रस्रवणं गिरिम् ॥ २१४ ॥
इति सुग्रीवाभिषेकः ॥ ६ ॥

इति श्रीक्षेमेन्द्रविरचिते रामायणकथासारे किष्किन्धापर्व ।




ततः पयोधरव्यूहैर्विततं विबभौ नमः ।
हरहुंकारदग्धस्य धूमैरिव मनोभुवः ॥ १ ॥
कदलीकुञ्जगर्भेषु तालतालीवनेषु च ।
वराहगजयूथेषु लीनेवासीद्धनच्छविः ॥ २ ॥
ततः पुष्पभुवः कीर्णा बभुर्जलकणैर्नवैः ।
अब्धिलब्धाम्बुभिर्मेघैर्मुक्तैर्मुक्ताफलैरिव ॥ ३ ॥
अथ निःसूत्रसंचारहारा धाराधरश्रियः ।
धाराधरा वने पेतुः परिहारा धृतेरिव ॥ ४ ॥
इन्द्रायुधप्रभापुञ्जैः प्रेनृत्तैश्च शिखण्डिभिः ।
घनानां च वनानां च स्पर्धेवासीत्परस्परम् ॥ ५ ॥
ववुर्विरहसंतापपिशुनाः शीकरानिलाः ।
निःश्वासा इव रामस्य करुणाश्रुकणाकुलाः ॥ ६ ॥
शिखण्डिताण्डवे गर्जत्पर्जन्यमुरजोर्जिते ।
बभार घननीहारः प्रवेशपटविभ्रमम् ॥ ७ ॥


१. 'पर्वतै' शा०,