पृष्ठम्:रामायणमञ्जरी.pdf/२०५

पुटमेतत् सुपुष्टितम्
१९६
काव्यमाला।

पूर्वोपकारिणा यत्ते रामेण सुहृदा कृतम् ।
अल्पा प्रतिकृतिस्तस्य तदर्थे जीवितव्ययः ॥ ९८ ॥
उपकारकणस्तावत्सत्यं भारायते सताम् ।
यावत्प्रत्युपकारेण न स तेनैव तारितः ॥ ९९ ॥
श्रुत्वैतन्मारुतसुतेनोक्तं तपननन्दनः ।
उवाच सत्यमुचितं कथितं भवता हितम् ॥ १० ॥
इदं तु नाभिजानामि यत्क्रुद्धः किल लक्ष्मणः ।
न मयोक्तं कृतं वापि मोहात्किंचिदसांप्रतम् ॥ १०१ ॥
छिद्रप्रवेशिभिर्नूनं द्विजिह्वैरेष मे सुहृत् ।
भेदप्रणिहितैर्जिह्मैर्वाग्विषेणाकुलीकृतः ॥ १०२ ॥
सत्योपलिप्तैरनृतैर्वाक्यैः प्रत्ययकारिभिः ।
दोषदृश्यैकवेशैश्च पैशुन्यं कुर्वते खलाः ॥ १०३ ॥
तूर्णमन्विष्यतां तावत्सौमित्रेः क्रोधकारणम् ।
न ह्यविज्ञातविषये प्रवर्तन्ते प्रतिक्रियाः ॥ १०४ ॥
रामात्तदनुजाद्वापि न भयं विद्यते मम ।
अदोषे कुपितः किं तु तीव्रशोककरः सुहृत् ॥ १०५ ॥
अतिकृच्छ्रेण लभ्यन्ते रक्ष्यन्ते च प्रयत्नतः ।
कष्टैर्नेष्टानि साध्यन्ते मित्राणि च धनानि च ॥ १०६ ॥
अवज्ञोपेक्षिते प्रेम्णि संधानं दुष्करं पुनः ।
जतुलेशेन संश्लेषः कथं नु स्फुटिते मणौ ॥ १०७ ॥
त्रुट्यत्यतिशयाकृष्टं हठाश्लिप्टे विपद्यते ।
सौहार्दं कष्टसंधार्यं मृणालीनालपेशलम् ॥ १०८ ॥
एतदेव महडद्दुःखं ममान्तःशल्यदुःसहम् ।
यत्प्रयत्नार्जितं मित्रं मिथ्यादोषेण नश्यति ॥ १०९ ॥
इदं दहति मे चेतो यदयुक्तोपकारिणः ।
जीवतापि न रामस्य पापेनोपकृतं मया ॥ ११० ॥


१. ’किं नु’ शा. २. 'यद्यत्नेनार्जितं' शा.