पृष्ठम्:रामायणमञ्जरी.pdf/२०६

पुटमेतत् सुपुष्टितम्
१९७
रामायणमञ्जरी।


इति सुग्रीववचनं निशम्योवाच मारुतिः ।
प्रेमबन्धनसूत्रालीमिव दंष्ट्रांशुभिः सृजन् ॥ १११ ॥
मित्रोपकारविरहव्याकुलस्य गुणोचिता ।
तवैषा शोभते चिन्ता यशःप्रणयदूतिका ॥ ११२ ॥
श्लथाम्बुजस्तनी प्रायः शरद्गलितयौवना ।
दृश्यते न च रामस्य यात्राकाले तवोद्यमः ॥ १.१३ ॥
प्रियाविरहतप्तेन प्रणयात्कुपितेन ते ।
भ्राता विसृष्टो रामेण वीतक्रोधो विधीयताम् ॥ ११४ ॥
इत्युक्तो मन्त्रिणां मध्ये मन्त्रज्ञेन हनूमता ।
तथेत्यूचे कपिपतिः कालातिक्रमलज्जितः ॥ ११५ ॥
अन्तःपुरं प्रविश्याथ लक्ष्मणः शुभलक्ष्मणम् ।
ददर्श रम्यपर्यङ्के सुग्रीवं दयितासखम् ॥ ११६ ॥
कान्ताकरतलाधूतचामरोदञ्चितांशुकम् ।
सुमेरुमिव संसर्पिचन्द्रांशुधवलाम्बुदम् ॥ ११७ ॥
विराजमानं हारेण जाह्नवीनिर्झरत्विषा ।
मन्दरं सागरोत्तीर्णमिव फेनावलीयुतम् ॥ ११८ ॥
दिव्याभरणसंभारप्रभापटलपाटलम् ।
बालार्कमिव संक्रान्तकामिनीकुचकुङ्कुमम् ॥ ११९ ॥
वल्लभालिङ्गानालग्नकपोलागुरुपल्लवम् ।
पारिजातमिव स्फारिसौरभाहूतषट्पदम् ॥ १२० ॥
विलासमारुतालोलललनावल्लरीयुतम् ।
उद्यानमिव कामस्य मन्दरोद्दामशेखरम् ॥ १२१ ॥
तं भोगसुभगं दृष्ट्वा भ्रातुर्दुःखेन पीडितः ।
भूयो जगाम सौमित्रिः कोपात्कालाग्नितुल्यताम् ॥ १२२ ।।
तं विलोक्यैव सुग्रीवः कृतातिथ्यं पुरोधसा ।
कान्तासखः समुत्तस्थौ संरम्भगलितांशुकः ॥ १२३ ।।


१.'क्रान्त'.शा..