पृष्ठम्:रामायणमञ्जरी.pdf/२०७

पुटमेतत् सुपुष्टितम्
१९८
काव्यमाला।


तं न सेहे हरिर्द्रष्टुं संवित्कालव्यतिक्रमात् ।
चिरं प्रणामव्याजेन वैलक्ष्यविनताननः ॥ १२४ ॥
रुमया सहिता तारा प्रणनाम कृताञ्जलिः ।
नमत्कर्णोत्पलरजोलेखाशबलितस्तनी ॥ १२५ ॥
स्वमेव वदनं पश्यन्संक्रान्तं मणिकुट्टिमे ।
ऊचे हरीन्द्रः सौमित्रिमासनं गृह्यतामिति ॥ १२६ ॥
तं लक्ष्मणोऽवदद्दूताः कृतार्था एव सत्कृतिम् ।
भजन्ते पूजयोच्छिष्टैः किं दूतैः कार्यनिष्फलैः ॥ १२७ ॥
शृणु तावत्कपिपते यत्प्रियाविरहार्दितः ।
संविद्व्यतिक्रमक्रुद्धस्त्वामाह रघुनन्दनः ॥ १२८ ।।
हन्तोचिता तवैवेयं शाखामृग कृतघ्नता ।
येनात्मसुखलुब्धेन विप्रलब्धः सुहृज्जनः ॥ १२९ ॥
कुलं स्वजनमात्मानं सुकृतं च निहन्ति यत् ।
तदसत्यं कथं नाम तव वल्लभतां गतम् ॥ १३० ॥
ऐश्वर्यविषसंदर्भमूर्छामीलितलोचनः ।
प्रियानपि न पश्यन्ति सुहृत्स्वजनबान्धवान् ॥ १३१ ॥
कृतघ्नः सर्वभूतानां वध्यः सर्वात्मना कपे ।
न स्मरत्यचलं स्फूर्जमुपकारं निगीर्य यः ॥ १३२ ॥
अस्ति विप्रवधादीनां पापानां महतामपि ।
निष्कृतिर्न कृतघ्नानामित्युवाच प्रजापतिः ।। १३३ ॥
धौता हरजटाजूटभ्रष्टगङ्गाजलैरपि ।
कृतघ्नधारणमलं मही मन्ये न मुञ्चति ॥ १३४ ॥
इति त्वामाह सुग्रीव रामः सत्यपराक्रमः ।
येन वालिवधे न्यस्तः शोकः कोपपदे द्विषाम् ॥ १३५ ॥
अहो नु स्त्रीप्रधानस्य समदस्य प्रमादिनः ।
विस्मृतं मित्रकार्ये ते मूर्खस्येव सुभाषितम् ॥ १३६ ॥