पृष्ठम्:रामायणमञ्जरी.pdf/२०८

पुटमेतत् सुपुष्टितम्
१९९
रामायणमञ्जरी।


संत्यक्तसर्वकार्याणां प्रशान्तनिजतेजसाम् ।
स्त्रीप्रणामपरिम्लानमानं धिग्जन्म रागिणाम् ॥ १३७ ।।
गीतेनेव कुरङ्गस्य पतङ्गस्येव तेजसा ।
स्त्रीसङ्गेन तवासन्नः सत्यं नाशः प्लवङ्गम ।। १३८ ॥
सर्वेषां योषितः सन्ति भोगाः कस्य न वल्लभाः।
किं तु त्वत्सदृशः कोऽस्ति यातं कालं न वेत्ति यः ॥ १३९॥
इति कोपाकुलालापे ब्रुवाणे राघवानुजे ।
तारा ताराधिपमुखी तमूचे वल्गुनादिनी ।। १४० ।।
नायं लक्ष्मण कोपस्य वचसः परुषस्य च ।
अर्हः सुहृत्कपिपतिः सर्वथा प्रणयी तव ॥ १४१ ॥
तवेन्दुसुन्दरादस्मान्मुखात्कमललोचन ।
वचःस्फुलिङ्गाः पतिताः सत्यं नः कर्मविप्लवात् ।। १४२ ॥
नासत्यवादी न शठो न कृतघ्नो न दुर्जनः ।
सुग्रीवो रामकार्ये तु योगीव ध्याननिश्चलः ॥ १४३ ।।
अत्युन्नतो महाभोगः श्रीमान्स्वगुणचामरः ।
रामेणैव यशःस्तम्भः कल्पस्थायीकृतः पदे ॥ १४४ ॥
चन्द्रिकाभरणे हर्म्ये कान्ताकुचपुरःसरः ।
सुखं न शेते सुग्रीवस्तप्तः काकुत्स्थचिन्तया ॥ १४५ ॥
पुरा जितेन्द्रियः सोऽपि विश्वामित्रस्तपोनिधिः ।
प्रयातं विपुलं कालं न मेने मेनकारतः ॥ १४६ ॥
विवशास्त्रिदशा यत्र मुनयो यत्र मोहिताः ।
प्रियासमागमे तस्मिन्मनः कस्य न लीयते ॥ १४७ ॥
रिपुक्षयसहायस्ते भ्रातस्ते दयितः सुहृत् ।
यथा रामस्तथैवायं पूज्यः श्रीमान्कपीश्वरः ।। १४८ ॥
हत्वा दशास्यं समरे सीतामाहृत्य दुर्लभाम् ।
एष प्रदास्यति क्षिप्रं रामस्य प्रीत्युपायनम् ॥ १४९ ।।