पृष्ठम्:रामायणमञ्जरी.pdf/२०९

पुटमेतत् सुपुष्टितम्
२००
काव्यमाला।


को वा रामस्य साहाय्ये पुरः समुपयुज्यते ।
तथापि प्रणयस्यैषा वचसि प्रभविष्णुता ॥ १५० ॥
सप्ताब्धिवेलाविश्रान्तशासनस्यास्य शासनात् ।
जगत्कपिमयं सर्वं रामकार्ये भविष्यति ॥ १५१ ।।
इति तारावचः श्रुत्वा मधुरं मधुराशयः ।
मृदुस्वभावः सौमित्रिः प्रसादं सहसा ययौ ॥ १५२ ।।
न कस्य गाढसौहार्दं प्रेम प्रणयपेशलम् ।
ललनावदनाम्भोजनिर्गतं वाङ्मधु प्रियम् ॥ १५३ ।।
प्रसन्नवदनं दृष्ट्वा लक्ष्मणं वानरेश्वरः ।
भयं चिन्तां च तत्याज न तु लज्जामनङ्गजाम् ।। १५४ ॥
स माल्यं कण्ठसंसक्तं रतिसंभोगलक्षणम् ।
छित्त्वा जगाद प्रणतः सौमित्रिं मित्रवत्सलः ॥ १५५ ॥
नष्टं यशश्च राज्यं च येन मे पुनराहृतम् ।
कृतं नाद्यापि तत्कार्यं धिङ्मां निष्फलजीवितम् ॥ १५६ ॥
गुणौघैस्तस्य देवस्य शक्तः कर्तुं प्रतिक्रियाम् ।
यस्य सप्तार्णवव्यापि सप्ततालभिदो यशः ॥ १५७ ।।
युधि हेलाहतेनैव विराधेनाविराधितौ ।
प्राज्यौ यस्य भुजस्तम्भौ कबन्धवधबान्धवौ ॥ १५८ ।।
तस्य संग्रामसाहाय्ये व्यग्रस्य मम केवलम् ।
भक्तिमात्रोपकरणं तथाप्येष समुद्यमः ।। १५९ ॥
मोहाधद्व्यतिक्रमो यश्च स मम क्षम्यतां त्वया ।
न कस्यानेकदोषोऽपि सुहृत्काय इव प्रियः ॥ १६० ॥
इति श्रुत्वा कपिपतेर्वचनं राघवानुजः ।
तमूचे सत्त्वसारस्य सर्वमेतत्तवोचितम् ॥ १६१ ॥
ममार्य शोकतप्तस्य क्षन्तव्यं परुषं त्वया ।
सद्भिः पदप्रहारोऽपि व्यसनार्तस्य सह्यते ॥ १६२ ॥


१. 'गुणे कस्तस्य शा..