पृष्ठम्:रामायणमञ्जरी.pdf/२१

पुटमेतत् सुपुष्टितम्
१२
काव्यमाला।

स्वपुत्राय कृतं रूपं सा कृत्वा दुन्दुभिस्वना ।
अगस्त्यग्रामे चक्रे स मतिं मोहात्प्रधर्षणे ॥ १३३ ॥
सा तच्छापादभून्नित्यं विकृताकारदुःसहा ।
राक्षसत्वं च मारीचो जगाम जनकण्टकः ॥ १३४ ॥
मालवानां करूषाणां कुर्वाणास्मिन्वने क्षयम् ।
स्थिता प्रसारितभुजा सा भूतभयदा सदा ॥ १३५ ॥
गोव्रजान्तकरीं घोरां जहि तां जनताहिताम् ।
स्त्रीविचारं परित्यज्य जगतां कार्यगौरवात् ॥ १३६ ॥
श्रूयते किल शक्रेण विलोचनसुता पुरा ।
राक्षसी दीर्घजिह्वाख्या हता विश्वक्षयोदिता ॥ १३७ ॥
अशक्रं लोकमिच्छन्ती दैत्यमाता बलोत्कटा ।
हता सुरशरण्येन विष्णुना प्रभविष्णुना ॥ १३८ ॥
त्वमप्येवं जगद्बन्धुर्मुनित्राणकृतक्षणः ।
पत्रिणा वज्रधारेण तां निपातय ताटकाम् ॥ १३९ ॥
इत्युक्ते मुनिना रामः क्षणं ध्यात्वा तमब्रवीत् ।
प्रमाणं सर्वधर्माणां निश्चये भवतां वचः ॥ १४० ॥
अहं हि भगवन्पित्रा नियुक्तस्तव शासने ।
भवता तस्य वचसा कार्य सर्वात्मना मया ॥ १४१ ।।
इत्युक्त्वाधिज्यमादाय धनुर्वीरपराक्रमः ।
ज्याघोषमकरोद्वनशैलनिष्पेष निःखनम् ॥ १४२ ।।
त्रैलोक्यरक्षाप्रारम्भमङ्गलोंऽकारकारिणा ।
ननृतुर्धनुर्घोषेण तेन त्रिदशबर्हिणः ॥ १४३ ॥
अथादृश्यत तत्कोपात्प्रलयाम्भोधरच्छविः ।
कल्पितेव निरालोकैः कल्पान्तरजनीशतैः ॥ १४४ ॥
दीप्तजिह्वाकरालेन विवृतास्येन भीषणा ।
लोलनीलाचलेनेव ज्वालाचक्रगुहागता ॥ १४५ ॥


१. 'मुदा'; 'पुरा' इति च पाठः. २. 'गर्भ' ग.