पृष्ठम्:रामायणमञ्जरी.pdf/२१०

पुटमेतत् सुपुष्टितम्
२०१
रामायणमञ्जरी।


आर्यस्य दैवनिर्दिष्टः सुवृत्तो विषदाशयः ।
दर्पणः सुखदुःखेषु त्वं सुहृत्संमुखः सदा ॥ १६३ ॥
सहायेन त्वयावश्यं सुहृदा रघुनन्दनः ।
अचाप्स्यति हतारातिः सीतां कीर्तिमिव प्रियाम् ॥ १६४ ॥
सखे तूर्णमितो गत्वा प्रौढकोपानलाकुलः ।
यत्नेनाश्वास्यतामार्यस्त्वया निर्दिष्टकारिणा ॥ १६५ ॥
प्रेमपात्रेण सुहृदा दर्शनामृतवर्षिणा ।
दुःखदाहं त्यजत्येव प्रियेणाश्वासितं मनः ॥ १६६ ॥
लक्ष्मणेनेत्यभिहिते तथेत्युक्त्वा हरीश्वरः ।
परिवृत्याननं किंचिदुवाच पवनात्मजम् ॥ १६७ ॥
कुलाचलेषु सर्वेषु समुद्रेषु वनेषु च ।
दिक्षु द्वीपेषु गगने निर्मनुष्यासु भूमिपु ॥ १६८ ॥
ये शैलजलदप्रख्या वसन्ति हरियूथपाः ।
तूर्णमायान्तु ते दूतैस्त्वद्विसृष्टैर्मदाज्ञया ॥ १६९ ॥
राजाज्ञादूषका ये तु नायान्ति मदमोहिताः ।
शरीरे दुःसहस्तेषां दण्डः क्षिप्रं निपात्यताम् ॥ १७० ॥
इत्युक्ते प्लवगेन्द्रेण हनूमद्वाक्यचोदिताः ।
कपीनां भीमवेगानां कोट्यस्तूर्णं दिशो ययुः ॥ १७१ ॥
इति हनुमद्व्यादेशः ।। ३ ॥
उदयास्ताचलशिरःशिखरेभ्यो महीयसाम् ।
कपीनां दश तिस्रश्च कोट्यस्तूर्ण समाययुः ॥ १७२ ।।
स्फुरत्केसरताराणां हरीणां हरितेजसाम् ।
शतानि सप्तकोटीनामाययुः स्फटिकाचलात् ।। १७३ ॥
हिमाद्रिवासिनां दिव्यफलमूलरसाशिनाम् ।
क्षिप्रं कोटीसहस्राणां सहस्रं समुपाययौ ।। १७४ ।।
भीमानां भीमवेगानां दीप्ताङ्गारकवर्चसाम् ।
सहस्रं कपिकोटीनामाययौ विन्ध्यभूधरात् ।। १७५ ॥