पृष्ठम्:रामायणमञ्जरी.pdf/२११

पुटमेतत् सुपुष्टितम्
२०२
काव्यमाला।


क्षीरोदकच्छकूलेभ्यस्तमालवनगन्धिनाम् ।
निःसंख्या कपिवीराणां प्रवाहिन्यः समाययुः ॥ १७६ ॥
निरुद्धभास्करालोके प्रसर्पितबलार्णवे ।
हनूमत्प्रेरिता दूतास्ते प्रापुस्तुहिनाचलम् ॥ १७७ ॥
दिव्यान्नरसनिष्पन्दे यज्ञे माहेश्वरे पुरा ।
फलमूलानि जातानि ते तत्र ददृशुर्मुदा ।। १७८ ॥
सुधास्वादानि दिव्यानि क्षुत्क्लमापहराणि ते ।
समादाय ययुस्तूर्णं तानि सुग्रीवमण्डलम् ।। १७९ ॥
निवेद्य वानरेन्द्राय ते तद्दिव्यमुपायनम् ।
प्रथमं वानरचमूं शशंसुः समुपागताम् ॥ १८० ॥
प्रस्तुतोऽथ गिरौ रामं द्रष्टुं हनुमतो गिरा।
भीतभीतोऽभवत्क्षिप्रं दोलालोलाशयः कपिः ॥ १८१ ॥
ततः प्लवगसैन्येन महता प्लवगेश्वरः ।
आरुह्य रत्नशिबिकां प्रतस्थे राघवाचलम् ।। १८२ ।।
स माल्यवन्तमासाद्य सेनासंच्छादिताम्बरः ।
ससर्प रामाभिमुखं पद्भ्यामेव कृताञ्जलिः ॥ १८३ ॥
लक्ष्मणेने युतं दृष्ट्वा सुग्नीवं हनूमन्मुखैः ।
सैन्येन च समायान्तं रामस्तत्याज विक्रियाम् ॥ १८४ ।।
कृतागसि पुरः प्राप्ते सतां मन्युर्विलीयते ।
दर्शनान्तं हि महतां प्रियेषु कलुषं मनः ॥ १८५ ।।
इति सुग्रीवयात्राः ॥ ४ ॥
निवारितसितच्छत्रं दूरविश्रान्तचामरम् ।
मौलिरत्नप्रभासूत्रैरिव बद्धोन्नताञ्जलिम् ॥ १८६ ।।
गाढं दोर्भ्यां परिष्वज्य राघवः सुहृदं प्रियम् ।
समाभाष्य च सामात्यमूचे विश्रम्यतामिति ॥ १८७ ।।


१. 'द्रष्टुं रामं' शा. २. 'णानुगतं' शा..