पृष्ठम्:रामायणमञ्जरी.pdf/२१२

पुटमेतत् सुपुष्टितम्
२०३
रामायणमञ्जरी।


ततः सुखोपविष्टं तं जगाद रघुनन्दनः ।
अपि विस्मृतमित्रस्य सुखिनः कुशलं तव ॥ १८८ ।।
त्यक्तस्वपरकार्याणां चिरसक्ता विभूतयः ।
राज्ञां भोगाभिभूतानां न भवन्ति भवादृशाम् ॥ १८९ ।।
प्रणयेनैतदुक्तोऽसि क्रियतामधुनोचितम् ।
अनुद्गीर्णो हि वचसा मन्युर्नैवोपशाम्यति ॥ १९० ॥
इति रामस्य वचनं वीतक्रोधो निशम्य सः ।
लब्धाश्वासोऽपि वैलक्ष्यादतिनम्राननोऽवदत् ॥ १९१ ।।
हेलावितीर्णराज्यस्य प्रत्याहृतयशःश्रियः ।
मानद त्वत्प्रसादस्य सर्वदस्यः किमुच्यते ॥ १९२ ।।
असेवाप्रतिपन्नस्य प्रीत्या पूर्वोपकारिणः ।
ये शठा नोपयुज्यन्ते भारैर्मज्जति तैर्मही ॥ १९३ ।।
वयस्यस्यातिदर्पोऽयं भक्तस्येति किमद्भुतम् ।
अधुना मम भृत्यस्य दृश्यतां कार्यगौरवम् ॥ १९४ ।।
इदं प्लवगसैन्यं मे सहसैव समागतम् ।
अतोऽप्यतिगुणं भूरि क्रमेण समुपैष्यति ।। १९५ ॥
इमे सेनाग्रगा वीरा वयं भृत्याः प्रभुर्भवान् ।
हत्वा दशास्यं त्रैलोक्यजयाय क्रियतां मतिः ॥ १९६ ॥
इत्याकर्ण्य हरीन्द्रस्य विनयाभरणं वचः ।
तं प्रत्युवाच काकुत्स्थः परिष्वज्य कृताञ्जलिम् ।। १९७ ।।
नैतच्चित्रं तव सखे गुणिनः सत्त्वशालिनः ।
स्वभाव एव महतां परकार्यार्थमुद्यमः ॥ १९८ ।।
धुतिरिन्दोः प्रभार्कस्य दीप्तिर्वह्नेधृतिर्भुवः ।
सतां च प्रकृतिः सत्यं परकार्यरतं मनः ॥ १९९ ॥
तदैव जानकी लब्धा निहताश्च मयाहिताः ।
यदैव दक्षिणेन त्वं मम धात्रार्पितः सुहृत् ॥ २०० ॥


१. 'सुहृदः शा०.