पृष्ठम्:रामायणमञ्जरी.pdf/२१४

पुटमेतत् सुपुष्टितम्
२०५
रामायणमञ्जरी।


रचिताञ्जलयः सर्वे सुग्रीवं प्रणिपत्य ते ।
तदादिष्टेषु देशेषु ससैन्याः समुपाविशन् ।। २१३ ॥
इति बलागमनम् ॥ ५॥
ततः शासनमादाय राघवस्य हरीश्वरः ।
उवाच विनतं नाम वीरं वानरयूथपम् ॥ २१४ ॥
पूर्वां दिशमितो गत्वा त्वमाखण्डलमण्डिताम् ।
जानीहि रावणहृतां विचिन्त्य जनकात्मजाम् ।। २१५ ॥
यमुनां यमुनाद्रिं च जाह्नवीं सरयूमपि ।
कौशिकीं तमसां नन्दां गोमतीं मागधीं पुरीम् ॥ २१६ ॥
विदेहपुण्ड्रवङ्गाङ्गकिरातशकबन्धुरान् ।
कर्णप्रावरणान्कालमुख्यान्पवनराक्षसान् ॥ २१७ ॥
अन्तर्जलचरान्घोरान्समुद्रद्वीपसंश्रयान् ।
सुवर्णकुड्यपर्यन्तं जम्बूद्वीपस्य भूधरान् ॥ २१८ ॥
शिबिरं नाम गगनासङ्गिशृङ्गं सुरालयम् ।
कालोदकं च जलधिं यत्रालक्ष्याः क्षपाचराः ।। २१९ ।।
छायाग्रहं ब्रह्मशप्ताः कुर्वन्ति किल देहिनाम् ।
ब्रह्मस्वहारिणः पूर्वं विप्रास्ते नरकं गताः ॥ २२० ॥
वसन्ति तमसि स्फारे सदा क्षुत्क्षामकुक्षयः ।
ततो रक्तजलं नाम समुद्रं घोरदर्शनम् ॥ २२१ ।।
गृहं विहगराजस्य विशालं कूटशाल्मलिम् ।
गोशृङ्गं च महानीलमब्धिमध्यात्समुत्थितम् ।। २२२ ॥
यत्र शृङ्गनिभा भीमा मन्देहा नाम राक्षसाः ।
शृङ्गेभ्यः सलिले प्रातर्लभन्ते च पतन्ति च ॥ २२३ ॥
ततः शशाङ्कधवलं क्षीरोदममृतास्पदम् ।
यस्य मध्येंऽशुमान्नाम जातो रजतभूधरः ।। २२४ ।।
रजताम्भोजनलिनी रम्यो रजतपादपः ।
दिव्यां सुदर्शनां नाम हेमहंससरोजिनीम् ॥ २२५ ।।