पृष्ठम्:रामायणमञ्जरी.pdf/२१९

पुटमेतत् सुपुष्टितम्
२१०
काव्यमाला।


सशब्दा साट्टहासेव दिवः पतति जाह्नवी।
नदी वैतरणी यत्र मांसपङ्कास्थिनिर्भरा ॥ २७७ ॥
रक्तोदका यक्षरक्षःसेविता केशशैवला ।
पिशाचोरगगन्धर्वशरीरशकलाकुला ॥ २७८ ॥
स मन्दरमतिक्रम्य धूमकेतुं महीधरम् ।
हैमं शरवनं यत्र कार्तिकेयस्य जन्मभूः ॥ २७९ ॥
उदीच्यां स्वशरा यत्र कपिला वेत्रनिम्नगा।
शैलोदा नाम तटिनी ततो यस्यास्तटद्वये ।। २८० ।।
वेणवः कीचका नाम व्याक्षेपैस्तारयन्ति ये ।
कुरूनथोत्तरान्दिव्यां नीलां प्राणहरां नदीम् ।। २८१ ॥
पारे स्वर्गोपमा यस्याः समा मणिमयी मही ।
हेमपद्माश्च पद्मिन्यः कल्पवृक्षाश्च पुष्पिताः ॥ २८२ ।।
यत्र चैत्ररथाभिख्ये बने क्षीरघृतापगाः ।
दिव्यभोगाश्च ललना नित्यसौभाग्ययौवनाः ॥ २८३ ॥
गुहां गुहसहस्राढ्यां ततश्च तिमिरावतीम् ।
यस्यामप्सरसो लीना दृश्यन्ते विविधाद्भुताः ।। २८४ ॥
तस्य देशस्य रम्यत्वाद्विस्मृतत्रिदशागमाः ।
सुरवारविलासिन्यः शप्तास्ताः शतमन्युना । २८५ ।।
अहन्यहनि नश्यन्ति प्रातः प्रातर्भवन्ति च ।
तस्यां गुहायां घोरायां वसन्ति स्मृतिवर्जिताः ।। २८६ ॥
ततः सोमगिरिं सोमप्रभै रुद्रैः कृतास्पदम् ।
कौतुकाद्ब्रह्मभवनं शृङ्गैर्द्रष्टुमिवोद्गतम् ॥ २८७ ।।
तपोवनं मनोर्यत्र ब्रह्मसूनोः प्रजापतेः ।
शशिस्थानं ततो गत्वा सर्वकामफलप्रदम् ॥ २८८ ॥
यत्र सा राक्षसी घोरा महोलूखलमेखला ।
तं तं विचित्य देशं च ज्ञातव्या जनकात्मजा ॥ २८९ ॥


१. 'उदेत्य स्वशिरो यत्र कपिलावर्तपाथसि' शा० ख.