पृष्ठम्:रामायणमञ्जरी.pdf/२२०

पुटमेतत् सुपुष्टितम्
२११
रामायणमञ्जरी।


मासावधिव्यपगमे वध्यास्ते चिरकारिणः ।
इत्यादिश्योत्तरामाशां वीरं शतबलिं विभुः ।
विसृज्य तूर्णमभवन्निर्वृत्तो वानरेश्वरः ।। २९० ।।
इति दिग्वर्णनम् ॥ ७॥
छादिताशावकाशेषु गतेषु जवशालिषु ।
प्लवगेष्वथ सुग्रीवं प्रोवाच रघुनन्दनः ।। २९१ ॥
अतो बताखिलो लोकः कथं दृष्टस्त्वया सखे ।
लोकानेतान्विजानाति सूर्यस्त्वं वा तदात्मजः ॥ २९२ ॥
इति पृष्टो वयस्येन व्याजहार कपीश्वरः ।
यदाहं वालिना भ्रात्रा वैरेणाभिसृतः पुरा ॥ २९३ ।।
ततो मनोजवस्तूर्णं देशेष्वेतेषु विद्रुतः ।
इति सुग्रीववचनं रामः श्रुत्वा प्रियोत्सुकः ।। २९४ ।।
यातानां कपिवीराणां दिनसंख्यापरोऽभवत् ।
याते ततः शनैर्मासे विचित्य विनतः कपिः ॥ २९५ ॥
पूर्वां दिशं जनकजामदृष्ट्वैव समाययौ ।
प्रत्यागतः शतबलिस्तथैवान्विष्य चोत्तराम् ॥ २९६ ॥
सुषेणः पश्चिमामाशामनुचित्य न्यवर्तत ।
तेषु प्राप्तेष्वनालोक्य मैथिलीं रघुनन्दनः ।। २९७ ।।
तद्व्यावृत्तां बबन्धाशामेकीभूतां हनूमति ।
अङ्गदानुगतास्तेऽपि प्लवगा हनुमन्मुखाः ॥ २९८ ॥
रामकार्यदृढोत्साहाः प्रापुर्विन्ध्यभुवं पुनः ।
दुर्गेषु गिरिजालेपु गुहासु गहनेषु च ॥ २९९ ।।
विचित्य सीतां विविशुस्ते वनं निर्मृगद्विपम् ।
निर्जने निर्द्रुमे तस्मिन्कानने विपुलं तपः ।। ३०० ।।
घोरो मुनिश्चचारोग्र्यं दण्डिनामातिकोपनः ।
नष्टस्तसिन्वने तस्य दशवर्षः सुतः पुरा ॥ ३०१ ॥


१. 'वध्या मे' ख.