पृष्ठम्:रामायणमञ्जरी.pdf/२२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
काव्यमाला।


तच्छापादभवत्सर्वं तन्निर्जलमृगद्रुमम् ।
कृच्छ्रणोत्तीर्य तं देशं वनमन्यत्प्रविश्य ते ॥ ३०२ ॥
ददृशुर्घोरमसुरं मारीचतनयं पुरः ।
तमुद्तं महाकायं हन्तुकामं प्लवङ्गमान् ॥ ३०३ ॥
अङ्गदस्तूर्णमाय जघानोरसि मुष्टिना ।
महता वनवेगेन बलिना वालिसूनुना ॥ ३०४ ।।
पपात रुधिरोद्गारगद्गदोगस्वरोऽसुरः ।
तस्मिन्हते तदन्विष्य ते वनं बहुगह्वरम् ॥ ३०५ ॥
उपविश्य परिश्रान्ता रामकार्यमचिन्तयन् ।
तानूचे हनुमान्वीरः कृत्स्नेयं विचिता मही ॥ ३०६ ॥
न तु दृष्टा जनकजा मिथ्यैवायं परिश्रमः ।
परीक्षितानि यत्नेन द्विधा कृत्वा तृणान्यपि ॥ ३०७ ।।
सीता नासादितास्माभिः संपद्भाग्यच्युतैरिव ।
क्रियते किं वृथैवायं निष्फलः कालसंक्षयः ॥ ३०८ ।।
प्राणव्ययेनापि जनैरप्राप्यं प्राप्यते कुतः ।
इति वायुसुतेनोक्ते विचार्यविददङ्गदः ॥ ३०९ ॥
विपुलोद्योगिनामेताः स्वाधीनाः कार्यसिद्धयः ।
उत्साहशक्तिहीनेभ्यः सिद्धोऽप्यर्थः पलाय्यते ॥ ३१० ॥
अदृष्टेष्वन्यदेशेषु द्रष्टव्या जानकी पुनः ।
निष्फलागमनक्रुद्धः सुग्रीवः केन सह्यते ॥ ३११ ॥
अङ्गदेनेत्यभिहिते सोत्साहाः कपियूथपाः ।
हृष्टाः सर्वे तथेत्युक्त्वा विन्ध्यमारुरुहुर्गिरिम् ।। ३१२ ॥
घने रोध्रवने तस्य सप्तच्छदवनेषु च ।
विचित्य सीतां जग्मुस्ते कन्दरासु दरेषु च ॥ ३१३ ॥
ते गत्वा दूरमध्वानं श्रमतृष्णानिपीडिताः ।
तुल्यं जलं च सीतां च यत्नेन द्रष्टुमुद्यताः ॥ ३१४ ॥