पृष्ठम्:रामायणमञ्जरी.pdf/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
काव्यमाला।


इह मूलफलं दिव्यं भक्षयित्वा गतक्लमाः ।
वदन्तु निजवृत्तान्तं भवन्तस्तत्त्वमूचितम् ॥ ३२८ ॥
इति स्वयंप्रभावाक्यं श्रुत्वा प्लवगपुंगवाः ।
भुक्त्वा पीत्वा च सुखिनः स्ववृत्तान्तं न्यवेदयन् ॥ ३२९ ॥
ततो विस्मृतमार्गास्ते मासमानं बिले स्थिताः ।
ययुः स्वयंप्रभादेशात्कपयो मीलितेक्षणाः ॥ ३३० ।।
शक्रवज्राहतिकृताद्विलात्तस्मात्प्लवङ्गमान् ।
स्वयमुत्तार्य कारुण्यात्सा स्वं प्रत्याययौ पदम् ॥ ३३१ ।।
इति बिलप्रवेशः ॥ ८॥
निजहस्ताग्रसंरुद्धलोचनास्ते विनिर्गप्ताः ।
उन्मील्य नेत्रे शनकैः समुद्रं ददृशुः पुरः ।। ३३२ ॥
स्फटिकस्तम्भसंभारप्रभैः कल्लोलबाहुभिः ।
प्रभञ्जनसमुद्धूतैर्नभोयातमिवोद्गतम् ॥ ३३३ ॥
तरङ्गतटसंघट्टविस्फुटः शुक्तिसंपुटैः ।
सतारकमिव व्योम हसन्तं व्यक्तमौक्तिकैः ॥ ३३४ ॥
प्रतिबिम्बितशुभ्राभ्रव्यूहेन धवलोदरम् ।
पुत्रं मैनाकमन्वेष्टुं मग्नेनेव हिमाद्रिणा ॥ ३३५ ॥
जलद्विपकरोदीर्णशीकरासारदुर्दिनैः ।
कुर्वाणमौर्वतप्तस्य निर्वापणमिवाम्भसः ॥ ३३६ ॥
विस्फुरन्मकरस्फारस्फालितैर्वीचिसंचयैः ।
दिशां दिशन्तमालोलदुगूलवलनामिव ॥ ३३७ ॥
मुक्तांशुकुसुमैश्चित्ररत्नच्छायाग्रपल्लवैः ।
तरङ्गैरुद्धताप्तं पारिजातशतैरिव ॥ ३३८ ॥
आपूरितं नदीवृन्दैर्निगीर्णं वडवाग्निना ।
नोसिक्तं न परिक्षीणमाशयं महतामिव ।। ३३९ ॥
सुधासहोदरैर्व्याप्तं शङ्खैः शीतांशुबान्धवैः ।
यशोभिरिव रामस्य हृदयानुप्रवेशिभिः ॥ ३४० ॥