पृष्ठम्:रामायणमञ्जरी.pdf/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
रामायणमञ्जरी।


शूत्कारघोरनिर्घोषसलिलावर्तमण्डलैः ।
कुर्वाणमिव कल्पान्तप्रारम्भोंकारविभ्रमम् ॥ ३४१ ॥
पयोभिर्गगनालग्नैः क्षणेन श्वभ्रपातिभिः ।
संपदामिव सुव्यक्तं दर्शयन्तमनित्यताम् ।। ३४२ ॥
लोलफेनदुकुलाभिः सकम्पैर्वीचिमारुतैः।
तरङ्गिणीभिः प्रौढाभिर्विहितालिङ्गनोत्सवम् ।। ३४३ ।।
स्फूर्जफेमानिलस्फारपरिवृत्तोदकैः क्षणम् ।
व्योमीकृतनिजाकारं सरिन्नाथीकृताम्बरम् ॥ ३४४ ॥
अपारमप्लवं सारं संसारमिव दुस्तरम् ।
अनेकाश्चर्यमालोक्य ते घोरं मकराकरम् ॥ ३४५ ॥
उपविश्यातिनिर्विण्णाः पाणिन्यस्ताननाः क्षणम् ।
न लेभिरे कपिवराश्चिन्ताब्धिपतिता धृतिम् ॥ ३४६ ॥
इति समुद्रदर्शनम् ॥ ९ ॥
तानङ्गदोऽब्रवीदॄष्ट्वा हेमन्तं प्रत्युपस्थितम् ।
मासोऽस्माकं विले यातः सुग्रीवेन धृतोऽवधिः ॥ ३४७ ॥
अधुना निष्फलक्लेशविनष्टोत्साहसंपदाम् ।
इहैव नस्तपो मन्ये साधुवादोचितं सताम् ॥ ३४८ ॥
इयान्क्लेशो धृतोऽस्माभिर्भर्तृपिण्डोपजीविभिः ।
संसारोच्छित्तये कस्सान्न कृतस्त्यक्तविप्लवैः ॥ ३४९ ॥
सन्तः संतोषशृङ्गस्थास्तृष्णाकल्लोलिनीजले ।
उन्मग्मांश्च निमगांश्च पश्यन्ति जनसंततिम् ॥ ३५० ।।
अथ वा यदि नास्त्येव विवेकः साधुसंमतः ।
तत्सुग्रीवभयं घोरं येनापैति तदुच्यताम् ॥ ३५१ ।।
स हि तीक्ष्णः प्रकृत्यैव रामेण च विवर्धितः ।
प्राणेष्वेवापराधेऽस्मिन्व्यक्तं नः प्रहरिप्यति ॥ ३५२ ।।
यौवराज्यमिदं दत्तं न तेन स्वेच्छया मम ।
किं नु रामस्य वचसा यत्रितेनैतदर्पितम् ॥ ३५३ ।।