पृष्ठम्:रामायणमञ्जरी.pdf/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
रामायणमञ्जरी।


इति तेषां भयान्तानां वचनं वालिनन्दनः ।
श्रुत्वा जगाद युष्माभिस्त्यज्यतामेष संभ्रमः ।। ३६६ ॥
अस्मिन्नेव विले दुर्गे निवसामः सुसंभृताः ।
न रामः प्रभवत्यत्र न सुग्रीवो न लक्ष्मणः ॥ ३६७ ॥
अविलयश्च देशोऽयं बहुमूलफलोदकः ।
शक्रोऽप्यत्र जयायैति याति भग्नमनोरथः ॥ ३६८ ॥
श्रुत्वैतदङ्गदवचः शङ्कितः पवनात्मजः ।
सुग्रीवगुणरक्तेन चेतसाचिन्तयत्क्षणम् ॥ ३६९ ॥
अहो नु हारितं राज्यं सुग्रीवेण सहानुगैः ।
[आपूर्यमाणं शश्वञ्च तेजोवृद्धिपराक्रमैः ॥ ३७० ॥
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ।
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ॥ ३७१ ।।
शुश्रूषमाणं ताराया गुरोरिव पुरंदरम् ।
भर्तुरर्थे पराक्रान्तो युक्तः शास्त्रविशारदः ॥ ३७२ ।।
स चतुर्णामुपायानां तृतीयं मण्डदर्शनम् ।
चतुर्दशगुणैर्युक्तं वाङ्गदं प्रति वायुजः ॥ ३७३ ।।]
यस्याङ्गदोऽपि दुर्गेऽस्मिन्प्रतिपक्षदशां श्रितः ।
बुद्धिमानेष नीतिज्ञः शूरः सप्रतिभो युवा ॥ ३७४ ।।
आश्रयो गुणरतानां धैर्याब्धिर्वेधसा कृतः ।
चतुर्दशगुणः सूनुः शक्रपुत्रस्य वालिनः ।
कस्य शङ्कास्पदं नायं दुर्गमित्रवलोचितः ॥ ३७५ ॥
हनूमानिति संचिन्त्य तं वञ्चयितुमुद्यतः ।
ऊचे तदनुरक्तानां भेदाकृष्टिसहं वचः ॥ ३७६ ॥
वीर वानरराज्येऽस्मिन्नार्हस्त्वत्सदृशोऽस्ति कः ।


१. "निवासः सत्सु संवृतः शा०. २. कोष्टकान्तर्गताः श्लोकाः ख-पुस्तके शारदा- लिपिपूर्वपाठे च न सन्ति. . २८