पृष्ठम्:रामायणमञ्जरी.pdf/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला।


न्यवेदयद्यथावृत्तं कपीनां च कृतार्थताम् ।
सर्वमाकर्ण्य संपातिस्तमूचे साश्रुलोचनः ॥ ४०३ ।।
रावणेन हतो वीरः प्रियो भ्राता ममानुजः ।
तं हन्तुमद्य शक्तोऽहं न नाम जरसार्दितः ॥ ४०४ ।।
प्रतिभाश्च प्रभावाश्च विभावाश्च शरीरिणाम् ।
कलापाकपरिम्लाना यान्त्येव स्मृतिशेषताम् ॥ ४०५ ॥
मोहः प्रज्ञावलं हन्ति जरा पिबति यौवनम् ।
जीवितं मृत्युरादत्ते सर्वमश्नात्यनित्यता ॥ ४०६ ॥
अहं युवा जटायुश्च वृत्ते वृत्रवधे पुरा ।
स्पर्धयाभिद्रुतौ व्योग्नि मार्तण्डरथवर्मना ।। ४०७ ॥
उदयाद्भास्करस्याग्रे प्रस्थितावस्तभूधरम् ।
आवामवाप्तौ मध्याह्ने व्योममध्ये महाजवौ ॥ ४०८ ॥
ततः प्रदीप्तकिरणज्वालावलयमालिनः ।
चण्डरश्मेः प्रतापेन जटायुर्विवशोऽभवत् ॥ ४०९ ॥
आच्छादितोऽथ कृपया पक्षाभ्यां स मयानुजः ।
जनस्थाने निपतितो मूर्छितः पर्वताकृतिः ॥ ४१० ॥
दृष्टाः सूत्रोपमा नद्यः शैला वल्मीकसंनिभाः।
मेरुलक्षप्रमाणश्च मया दृष्टो दिवाकरः ॥ ४११ ॥
निर्दग्धपक्षः पतितस्ततोऽहं विन्ध्यपर्वते
विनष्टसंज्ञः संतप्तो मांसपिण्डोपमाकृतिः ॥ ४१२ ।।
पडूरात्रेणाथ मां किंचित्प्राप्तसंज्ञं कृपानिधिः ।
भरणे कृतसंकल्पं मुनिरूचे निशाकरः ॥ ४१३ ॥
शरीरं न त्वया त्याज्यं कृच्छ्रेऽप्यस्मिन्विहंगम ।
रामस्य चरितं श्रुत्वा पक्षौ तब भविष्यतः ॥ ४१४ ॥
वलोत्साहोपपन्नश्च भविष्यसि पुनर्युवा ।
मुनेरिति वचः श्रुत्वा स्थितोऽहं चिरमाशया ॥ ४१५ ॥