पृष्ठम्:रामायणमञ्जरी.pdf/२३

पुटमेतत् सुपुष्टितम्
१४
काव्यमाला।

प्रस्वापनं प्रमथनं वर्षणं च सशोषणम् ।
संतापनं विलापास्त्रं दमनं च मनोभुवः ॥ १५८ ॥
नैषादं मानवं नाम वामनं च सशामनम् ।
संवर्त सौमलं सत्यं मायास्त्रं मोघतेजसम् ॥ १५९ ।।
सोमास्त्रं शैशिरं त्वाष्ट्रं दारुणास्त्रं भगस्य च ।
रौद्रास्त्रं चेति दिव्यानि जग्राह रघुनन्दनः ॥ १६० ॥
पुरः प्रत्यक्षरूपाणि प्राप्तानि च ततो मुनेः ।
सजृम्भकरहस्यानि ससंहाराण्यशेषतः ॥ १६१ ॥
संस्पृश्य पाणिना तानि प्रतिपूज्य विसृज्य च ।
व्रजन्काननमालोक्य रामः पप्रच्छ कौशिकम् ॥ १६२ ॥
इत्यस्त्रप्राप्तिः ॥ ४ ॥
इदं मरकतश्यामतालतालीनिरन्तरम् ।
बृहत्फुल्ललताकुञ्जमञ्जुगुञ्जद्विहङ्गमम् ॥ १६३ ॥
मनोनयननिर्वाणं संतोषविषयं रतेः ।
क्षेत्रं निर्विघ्नविश्रान्तेर्भगवन्कस्य काननम् ॥ १६४ ॥
इति रामेण विनयात्पृष्टो मुनिरभाषत ।
सिद्धाश्रमोऽयं देवस्य विष्णोर्वामनरूपिणः ॥ १६५ ॥
योगेन वामनो भूत्वा यः कान्त्वा भुवनत्रयम् ।
जहार जगतीं कृत्स्नां त्रैलोक्यजयिनो बलेः ॥ १६६ ॥
तदाश्रमपवित्रेऽस्मिन्कानने सिद्धसेविते ।
यज्ञभूर्मम तद्भक्तिसुधाप्लावितचेतसः ॥ १६७ ।।
इत्युक्ते मुनिनाभ्येत्य सिद्धाश्रमनिवासिनः ।
सज्जोऽयं यज्ञसंभारस्तवेत्यूचुस्तमग्रतः ॥ १६८ ॥
अथ. राघववाक्येन दीक्षां कौशिकनन्दनः ।
विवेश वीतविघ्नेन मनसा व्यस्तविप्लवः ॥ १६९ ।।


१. 'समौसनम्'; 'ससौमनम्' इति च पाठः.