पृष्ठम्:रामायणमञ्जरी.pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
काव्यमाला।


पक्षौ ममाप्तवीर्यस्य सर्वे पश्यन्तु वानराः ।....
इहस्थ एव पश्यामि लङ्कायां जनकात्मजाम् ॥ ४२९ ॥
सप्तमी गतिरस्माकं सौपर्णं च विलोचनम् ।
वयमाहारतात्पर्यात्प्रकृत्या च विहंगमाः ॥ ४३० ॥
योजनानां शतं सार्धं पश्यामस्तीक्ष्णचक्षुषा ।
पुराणोऽहं जलनिघेर्लङ्घने न तथा क्षमः ॥ ४३१॥
खस्ति वोऽस्तु व्रजाम्येष हिमवन्तमतो गिरिम् ।
तरन्तु वानराः क्षिप्रं सर्वे विक्रमशालिनः ।
समुद्रं रावणपुरीं प्रविशन्त्वनिवारिताः ।। ४.३२ ।।
श्रुत्वेति संपातिवचस्तमुवाचाथ जाम्बवान् ।
त्वमेवोपायमस्माकं चिन्तयाम्भोधिलङ्घने ॥ ४३३ ॥
रामकार्यं यथास्माकं तथा तब विशेषतः।
तस्मात्साधो त्वमेवान परमं नः परायणम् ॥ ४३४ ॥
इति जाम्बवतः श्रुत्वा संपातिः पुत्रमस्सरत् ।
स्मृतः सोऽप्याययौ क्षिप्रं पक्षाक्षेपधुताम्बुधिः ॥ ४३५ ।।
ततो विदितवृत्तान्तः स पितुर्वचसा खगः ।
सपार्श्वः प्रणतः सर्वानुवाच गरुडोपमान् ॥ ४३६ ॥
युवराजोऽङ्गदः श्रीमान्मामारुह्य मनोजवम् ।
उल्लङ्घय जलधिं यातु लङ्कां रावणपालिताम् ॥ ४३७ ॥
इति गृध्रकुमारस्य वचः श्रुत्वा बलोर्जितम् ।
प्रत्युवाचाङ्गदो मानी पूजयित्वाथ तद्वचः ॥ ४३८ ॥
साधो कृतं त्वया सर्वं सुहृत्प्रणयशालिना ।
त्रैलोक्यलङ्घनसहाः किं तु सन्तीह वानराः ॥ ४३९ ।।
उपलब्धैव वैदेही सुहृदस्त्वत्पितुर्गिरा ।
अधुना नास्ति नः किंचिदगम्यं व्यवसायिनाम् ॥ ४४० ॥


१. 'तत्किं' ख.