पृष्ठम्:रामायणमञ्जरी.pdf/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
काव्यमाला।


न ममोत्पततो वेगात्सहते पादयोर्भरम् ।
गगनाक्रान्तियोगेन बलेनापीडिता मही ।। ५०४ ॥
महेन्द्रगिरिमारुह्य लङ्घयामि महोदधिम् ।
एष मे सहते वेगं निकारमिव सज्जनः ॥ ५०५ ।।
इत्युक्त्वा सहितः सर्वैर्वानरैर्वालिनन्दनः ।
आरुरोह महेन्द्राद्रिं मूर्तं सारमिवात्मनः ।। ५०६ ॥
पीताब्धिसलिलैर्मेघैर्द्विपैश्च मदमन्थरैः ।
व्याप्तं दिव्यद्रुमाकीर्णं शिखरोल्लिखिताम्बरम् ॥ ५०७ ॥
सिद्धकिंनरगन्धर्वललनाचरणाङ्कितम् ।
प्रहृष्टमिव शष्पाग्रजातरोमाञ्चकञ्चुकम् ॥ ५०८ ।।
उच्चैस्तटमहासानुः स्कन्धोरुशिखरः कपिः ।
स बभौ शैलशिखरे द्वितीय इव भूधरः ॥ ५०९ ॥
आलोकयन्तमखिलं जलधिं लङ्घनोद्यतम् ।
तं द्रष्टुमाययुर्देवाः सह सिद्धर्षिचारणैः ।। ५१० ॥
क्रामतस्तस्य स गिरिश्चरणाभ्यां निपीडितः।
ननाम धातुसलिलं भूरिरक्तमिवोद्वमन् ॥ ५११ ॥
शिलानिपीडितव्यालविषोल्कानलमालितः ।
शान्तिं स लेभे भग्नोरुचन्दनप्रसवाम्बुभिः ॥ ५१२ ।।
तरवः फुल्लशवलाः शिलाश्च समनःशिलाः ।
निपेतुः सागरे स्फारजलस्फालवृंताम्बराः ।। ५१३ ॥
मूलाद्विचलिते तस्मिन्गिरौ सागरवासिनः ।
धभूवुर्वृद्धमकरा मथनायासशङ्किनः ॥ ५१४ ।।
एकेन पीडितः प्रौढः कपिनाश्चर्यकारिणा ।
याच्ञायैव महासत्त्वो गिरिर्वानतां ययौ ।। ५१५ ॥


१. 'भृता' शा०. २. 'गामि' शा०, ३. 'तः' शा०. ४. 'वले शा०.,५.'प्रौढं' ६. 'कपेरा' शा०. ७.'णः शा. ८. 'याच्ञयौ' शा०.